________________ कुमारपालप्रबोधप्रबन्ध 79. सर्वज्ञता नास्ति मनुष्यलोके नात्यन्तमृग्वाऽपि जनो हि कधित / ज्ञानेन हीनोत्तममध्यमेन यो यद् विजानाति स तेन पण्डितः॥२॥ ततस्तत्र राजा निजकीर्तिप्रसरावसरमवेत्य सकलपाखण्डिनां यथाकामं दानमदात् / ततो वाणारयां भूतानन्दयोगिनं बहुपरीवारवृतं अनेकविद्यामत्रतत्रयत्रादिविचित्रकलाकौशलेनात्मीयकृतबहुजनं दृष्ट्वाऽचिन्तयत्८०. ये लुब्धचित्ता विषयार्थभोगे बहिर्विरागा हृदि बद्धरागाः। . ते दाम्भिका वेषधराश्च धूर्ता मनांसि लोकस्य तु रजयन्ति // 1 // - 81. कुलीनाः सुलभाः प्रायः सुलभाः शास्त्रशालिनः। सुशीलाश्चापि सुलभा दुर्लभा भुवि तात्त्विकाः॥२॥ ततः प्राची प्रति प्रतस्थे / तत्र कुरु-सूरसेन कुशावर्त्त-पांचाल-विदेहा-दशार्ण-मागधादीन् देशानसाधयत् / ततो राजाऽग्रतो गच्छन् क्वापि वने निर्विजने रहः प्रदेशे कमपि मुनिपुंगवमेकाकिनमन्तः समा- " विखाधीनमनःप्रयोगं नासाग्रविन्यस्तार्द्धनिमीलितनयनं प्रशमपीयूषपानसुहितं सकलपाणिवर्गस्य निजसंसर्गप्रणाशितनिसर्गवैरं खान्तैकान्तभावज्ञातनृपनिर्मितप्रणामं विलोक्य राजा सविस्मयं चिन्तयति स्म८२. तृणं ब्रह्मविदः खर्गस्तृणं शूरस्य जीवितम् / विरक्तस्य तृणं नारी निरीहस्य तृणं नृपः॥१॥ ततो राजा क्षणान्तरे कृतप्रणामः पुनः सकलभवक्लेशनाशिनी धर्माशिषां समासाद्य प्रश्नमकरोत्-भगवन् ! . कयं तुरन्तविषयाशा निराशाश्चके ?' मुनिरुवाच-'राजन् ! 83. यस्यात्म-मनसोभिन्नरुच्योमैत्री प्रवर्तते। योगविनैकनिनेषु तस्येच्छाविषयेषु का // 1 // एतन्निशम्य राजा सपरिकरः क्षणं मुनिप्रभावात् प्रशान्तखान्तः चेतसि चिन्तां चकार / अहो स्वार्थकृतस्यापि साम्यस्य महिमा नहि मानगोचरः / यतः८४. सारंगी सिंहशावं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं, . मार्जारी हंसवालं प्रणयपरवशा केकिकान्ता भुजङ्गम् / वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजेयु ___ इंष्ट्वा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् // 1 // . ततो मुनिखरूपं निरूप्य स्वात्मानं निनिन्दः / अहो विषयाशाकलुषं जगत् / ततो मुनिदेशानां निशम्य / कतिमिः प्रयाणैः साधितभूवलयः, निभृतं भृतभाण्डागारः, चतुरङ्गचमूचञ्चलीकृतचतुराशः, पूरितार्थिजनाशः, कृतकुनीतिप्रणाशः, प्रादुःकृतधर्ममार्गप्रकाशः, यशःपुञ्जपूरितत्रिभुवनावकाशः श्रीकुमारपालनरेश्वरः कृतप्रवेशमङ्गलमहोत्सवः श्रीपत्तनमाजगाम / द्वासप्ततिसामन्तभूपालैः कृतराज्याभिषेकः साम्राज्यं करोति / 335. अथान्यदा श्रीचौलुक्यचक्रवर्ती सर्वावसरे स्थितः कौंकणदेशीयस मल्लिकार्जुनस्य राज्ञो मागधेन राज पितामह इति बिरुदमभिधीयमानमसृणोत् / 85. यथा-जित्वा प्राग निखिलानिलापतिवरान् दुर्वारदोर्वीर्यतः, कृत्वा चात्मवशंवदानविरतं तान् पौत्रवत् सर्वदा। धत्ते राज पितामहे ति बिरुदं यो विश्वविश्वश्रुतं, . सोऽयं राजति मल्लिकार्जुननृपः कोदण्डविद्यार्जुनः॥१॥