________________ पुरातनाचार्यसंगृहीत 634. अथ श्रीकुमारपालः समस्तसामन्तचक्रवालचतुरङ्गचमूचंक्रमणचलाचलभूवलयः, दिग्विजययात्राये चचाल / तत्र प्रथमं दक्षिणाशां प्रति प्रस्थितो लाट-महाराष्ट्र- कर्णाट-तिलंगादिदेशाना विन्ध्याचलमसाधयत् / ततो दक्षिणसमुद्रतटनिकटेष्टन् कलोलान् दृष्ट्वा कम्पकारणमपृच्छत् / तत्र कवयः प्रोचुः प्राप्तः श्रीरेष कस्मात् पुनरपि मथितं मन्थखेदं विधिच्छुः निद्रामप्यस्य संप्रत्यनलसमनसो नैव संभावयामि। सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुपात स्त्वय्यायाते विकल्पानिति दधत इवाभाति कम्पः पयोधेः // 1 // - सपादलक्षटंकानौचित्येऽदात् / ततः सेतुबन्धं विलोक्य श्रीरामदेवप्रशस्तिमवाचयत् / यया७४. शय्या शाड्वलमासनं शुचि शिलासा द्रुमाणामधः, शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः। इत्यप्रार्थितलभ्यसर्वविभवे दोषोऽयमेको वने, दुःप्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते // 1 // _ अहो रामस्य वदान्यता वनेऽपि / ततः परशुरामस्याश्रमं विलोक्योवाच-'अहो ! क्रोधस्य विस्फूर्जितम् / यः पूर्व खां जननीमघातयत्' / ततः७५. येन त्रिःसप्तकृत्वो नृपवलवसासान्द्रमास्तिक्यपङ्कः,' __ प्राग्भारेऽकारि भूरिच्युतरुधिरसरितारिपूरेऽभिषेकः / यस्य स्त्रीवालवृद्धावधिनिधनविधौ निर्दयो विश्रुतोऽसौ, - राजन्योचांसकूटकथनपटुरटद् घोरधारः कुठारः॥१॥ अहो प्राणिनां सकलपुरुषार्थप्रत्यर्थी सदा संनिहितोऽयं क्रोधः आचन्द्रार्कमयशःपटुपटहघटनापण्डित इति * संचिन्त्य पश्चाद् व्याघुट्यमानः पथि प्रवीणजनवाणीमशृणोत् / यथा७६. तावकीनकटकैरथोद्धता धूलयो जगति कुर्युरन्धताम् / चेदिमाः करिघटामदाम्भसा भूयसा प्रशमयेन्न सर्वतः॥१॥ सपादलक्षमत्र दानम् / / अथ पश्चिमां प्रति चचाल / तत्र सुराष्ट्र-ब्राह्मणवाहक-पंचनद-सिन्धु-सौवीरादिदेशान् साधयामास / तत्र सिन्धुपश्चिमतटे पद्मपुरे पानृपपुत्री पद्मिनी पद्मावती नानी खप्रतीहारीमुखेन श्रीकुमारपालदेवस्यातिरूपादिखरूपं श्रुत्वा, ततः कृतनिश्चया पित्रा विसृष्टा, सप्तकोटीद्रव्ययुता, सप्तशतसैन्धवतुरङ्गमपरिवृता, खसमानषोडशवराङ्गनासहिता, स्वयंवरा समायाता राज्ञा परिणीता / अस्मिन्नवसरे कश्चित् पपाठ७७. एकत्रिधा हृदि सदा वसति स्म चित्रं यो विद्विषां विदुषां च मृगीहशांच। तापं च संमदभरं च रति च सिञ्चत् सूर्योष्मणा च विनयेन च लीलया च // 1 // ___अत्रापि सपादं लक्षदानम् / ततः पश्चादागच्छन् द्वारिकासन्नः केनापि विज्ञप्तः- देवात्र कृष्णराजो बलिनिकन्दनो राज्यमकरोत् / तत्र देवदाये द्वादशग्रामान् ददौ / अथोत्तरां प्रति प्रतस्थे / तत्र कास्मीरोड्डियान-जालंधर-सपादलक्ष-पर्वत-स्वसादिदेशाना हिमाचलमसाधयत् / तत्र गंगातटे नानावेषक्रियाशास्त्रदैवतादिभेदेन परस्पराधिक्षेपपरान् विवदमानान् बहुविधतीर्थकानवलोक्याचिन्तयत्. . .78. प्रसन्नस्यास्तसङ्गस्य वीतरागस्य योगिनः / - भवन्ति सिद्धयः सर्वा विपर्यासे न किंचन // 1 //