________________ 71. इमारपाउप्रबोषप्रबन्ध सोलामिधानो गन्धर्वराद नृपतिना समादिष्टः, अटवीमटन्तं स्फीतगीतादिकृष्टिविषया गले खेलत्कनकधाम नगरान्तः समानीय तस्स भूपतेः सभासमक्षं दर्शयामास / अथ तत्कलाकौशलेन चमत्कृतमानसः नृपतिः सोलाकं गीतकलाया भवर्षि पप्रच्छ / स तु शुष्कदारुणः पल्लवप्ररोहमवधि विज्ञप्तवान् / तर्हि तस्कौतुकं दर्शयेत्यादिछ, बघुदाद् गिरेविरहनामानं वृक्षमाक्षेपादानाय्य तत्शुष्कशाखाखण्डं राजाङ्गणे कुमारमृत्तिकालसालवाले चिक्षेप / मल्हारवर्णातअनवयगीतकलया सघः प्रोल्लसत्पल्लवितं निवेदयन्, स सपरिवारं नृपं तोषयामास / तदा सन्तुष्टेन राजा पारितोषके ग्रामयमलं दत्तम् / -बइकारसोलाप्रबन्धः। 11. कृतोपकारानाकार्य सर्वान् सत्त्वहितस्ततः / कृतज्ञः कृतवान् राजा तेषां पूजां यथोचिताम् // 21 18. . खामिभक्तो जनोत्साही कृतज्ञो धार्मिकः शुचिः। अकर्कशः कुलीनश्च शास्त्रज्ञः सत्यभाषकः // 1 // 69. विनीतः स्थूललक्षश्चाव्यसनी वृद्धसेवकः। अक्षुद्रः सत्त्वसंपन्नः प्राज्ञः शूरोऽचिरक्रियः // 2 // पूर्वपरीक्षितः सर्वोपधासु निजदेशजः।। राजार्थ-खार्थ-लोकार्थकारको निस्पृहः शमी // 3 // ' अमोघवचनः कल्पः पालिताशेषदर्शनः। पात्रौचित्ये च सर्वत्र नियोजितपदक्रमः // 4 // आन्धीक्षिकी-त्रयी-वार्ता-दण्डनीतिकृतश्रमः। क्रमागतो वणिकपुत्रो भवेन्मश्री न चापरः // 5 // इति नीतिं विमृश्य तेन राज्ञा पूर्वोपकारकर्तुः श्रीमदुदयनाङ्गजः श्रीवाग्भदेवो महामात्यचके / मालिगनामा ज्यायान् प्रधानः, महं उदयनदेवश्च / ६३२.तदा चौलुक्यराज्ञा कृतज्ञचक्रवर्तिना आलिगकुलालाय सप्तशतीग्राममिता विचित्रा चित्रकूटपट्टिका . ददे / ते तु निजान्वयेन लजमाना अद्यापि 'सागरा' इत्युच्यन्ते / यैध छिन्नकण्टकान्तरे प्रक्षिप्याक्षतो रक्षित- . स्वेङ्गरक्षकपदे प्रतिष्ठिताः / विस्मृताः श्रीहेमसूरयः। १३३.अन्यदा उवयनमत्रिणाहूताः श्रीपत्तने समायाताः समहोत्सवम् / कदाचिद् गुरुभिरूचे-'हे मत्रिन् ! त्वं भूपं रहो ब्रूयाः-अब त्वया नवीनराज्ञीगृहे न सुप्तव्यं रात्रौ, सोपसर्गत्वात् / केनोक्तमिति पृच्छेश्चेत् तदाऽत्याग्रहे मम नाम ब्याः' / ततस्तेन मत्रिणा तथोक्ते, राज्ञा च तथाकृते, निशि विद्युत्पातात् तस्मिन् गृहे दग्धे, तसांप राश्यां मृतायां राजा चमत्कृतः / जगाद सादरम्-'मविन् ! कस्सेदमनागतज्ञानं, महत्परोपकारित्वं च ततो राजानिर्वन्धे कृते मत्रिणा श्रीगुरूणामागमनमूचे / तत् श्रुत्वा प्रमुदितो नृपस्तानाकारयामास / राजसभायामुपागतानभ्युत्थाय ववन्दे, प्राञ्जलिरुवाच च-'भगवन्नहं निजास्यमपि दर्शयितुं नालं तत्रभवताम् / तदा स्तम्भतीर्थे रक्षितः, भाविराज्यसमयचिठडिका चार्पिता / परमहं प्राप्तराज्योऽपि नास्मार्षम् / युष्माकं निष्कारणप्रथमोपकारिणामहं कथंचनापि नानृणीभवामि' / सूरिभिरूचे इत्यं विकत्थसे कस्मात् त्वमात्मानं मुधा नृपः / उपकारक्षणो यत्ते संप्रत्यस्ति समागतः // 22 कृतज्ञत्वेन चेत् प्रत्युपचिकिस्त्वं, तर्हि विश्वजनीने श्रीजैने धर्मे निजं मनो निधेहि / राज्ञा तत्प्रतिपयोक्तम्'युम्माभिरिहानिशमागन्तव्यमिति' / एवमाचार्यैः सह राज्ञः संगतिः समजनि /