________________ पुरातनाचार्यसंगृहीत मश्रीः कुलक्रमायाता शासने लिखिता न तु। खड्गेनाक्रम्य भुञ्जीत वीरभोग्या वसुन्धरा // 1 // तानाहास्ताभिषेकाय मृगेन्द्रासनमास्थितः / ततः कृष्णादिभिः प्रोचे परामर्श विमुच्य मोः!॥ पत्रार्थे मा विलम्बध्वं कार्य चेजीवितेन वः / तद्भीतैस्तैस्तथा चक्रे कुमारगुणरञ्जितैः॥ मुक्तानां सेतिका क्षिप्ता तत्शीर्षेऽभूत् सपलिका / कृष्णदेवभट्टमुख्यैस्ततो राजेत्यसौ नतः // श्रीकुमारपालदेवो वेष्टितो मण्डलेश्वरैः / पट्टहस्तिसमारूढो मेघाडम्बरमण्डितः // चामरैव-ज्यमानस्तु गृह्णन् पौरजनाशिषः / विविधातोधनिर्घोषैर्यधिरीकृतदिङ्मुखः // हास्तिकावीयपादातिरथकव्याभिकोटिभिः / पुरतः पार्थतः पश्चालोकैश्च परिवारितः // .. 19 प्रदत्तच्छटकुंकुभिर्मदैर्मुगमदैरिव / ददद्दानं तदार्थिभ्यो राजा प्रासादमासदत् // 220 * 128. ततः श्रीमत्कान्हडदेवमुख्यैः समस्तैरपि [सामन्तैः] पञ्चाङ्गचुम्बितभूतलं नमोऽकारि / स प्रौढतया देशान्तरपरिभ्रमणनैपुण्येन राज्यशास्तिं स्वयं कुर्वन् , राज्यवृद्धानां प्रधानानामरोचमानस्तैः सम्भ्य व्यापादयितुं व्यवखितः / सान्धकारगोपुरेषु न्यस्तेषु घातकेषु प्राक्तनशुभकर्मणा प्रेरितेन केनाप्याप्तेन ज्ञापितस्तद्वृत्तान्तस्तं प्रदेशं विहाय द्वारान्तरेण वर्ष प्रविष्टः / तदनु तान् प्रधानान् यमपुरी प्रति प्राहिणोत् / 629. स भावुकमण्डलेश्वरः शालकसम्बन्धात् राजस्थापनाचार्यत्वाच्च राजपाटिकायां सर्वावसरेषु च प्राक्तनदुःखा" बखां समर्मतया जल्पति स्म / राज्ञोक्तम् -'त्वयाऽतःपरमेवंविधं सभासमक्षं न वाच्यं, विजने तु यहच्छ्या वाच्यम् / 63. यतः-आज्ञाभङ्गो नरेन्द्राणां महतां मानखण्डना / मर्मवाक्यं च लोकानामशस्त्रो वध उच्यते // 1 // . . याचको वञ्चको व्याधिः पंचत्वं मर्मभाषकः। योगिनामप्यमी पञ्च प्रायेणोद्वेगहेतवः // 2 // - इति राज्ञोपरुद्ध उत्कटतया अवज्ञावशाच्च-रेऽनात्मज्ञ ! इदानीमेव पादौ त्यजसि ?" इति भाषमाणो मर्तुकाम औषधमिव तद्वचं पथ्यमपि न जग्राह / नृपस्तदा तदाकारसंवरणेनापहवं विधायापरस्मिन् दिवसे नृपसङ्केतितैर्मलैस्तदङ्गभङ्गं कृत्वा नयनयुगलमुद्धृत्य, ततस्तं तदावासे प्रस्थापयामास / ग्रन्थान्तरेऽप्युक्तम् - 65. काके शौचं द्यूतकारेषु सत्यं, सर्प क्षान्तिः स्त्रीषु कामोपशान्तिः / ___ क्लीवे धैर्य मद्यपे तत्वचिन्ता, राजा मित्रं केन दृष्टं श्रुतं वा // 1 // * 66. यतः-शास्त्रं सुनिश्चितधिया परिचिन्तनीयमाराधितोऽपि नृपतिः परिशङ्कनीयः। आत्मीकृताऽपि युवतिः परिरक्षणीया; शास्त्रे नृपे च युवती च कुतः स्थिरत्वम् // 2 // 67. आदौ मयैवायमदीपि नूनं, न तद्दहेन्मामवहीलितोऽपि / इति भ्रमादङ्गुलिपर्वणापि, स्पृशेत नो दीप इवावनीपः॥३॥ इति विमृशद्भिः समन्ततः सामन्तैर्भयभ्रान्तचित्तैस्ततःप्रभृति स नृपतिः प्रतिपदं सिषेवे / * ६३०.पट्टाभिषेकादनन्तरं सोलाकनामा गन्धर्वोऽवसरे गीतकलयाऽतुलया रखिताद् राज्ञः षोडशाधिक शत प्रसादे द्रमाणामवाप्य, तैः सुखभक्षिका विसाध्य, बालकान् तया सन्तर्पयन् 'राज्ञो दानमल्पमित्युपहसन् , कुपितेन राजा निर्वासितो विदेशं गतः / तत्रत्य भूपतेः परितोषिताद् गजयुगलमानीयोपायनीकुर्वन् पौलुक्यभूपालेन संमानितः / कदाचित् कोऽपि वैदेशिकगन्धर्वो 'मुषितोऽस्मी'ति तारं बुम्बारवं कुर्वाणः, 'केन मुषितोऽसीति राजाषिबितो 'मम गीतकलयालुलया सामीप्यमुपेयुषा कौतुकार्पितगलगडलेन नश्यता सगेणेति विज्ञापयामास / तदनु