________________ कुमारपालप्रबोधप्रबन्ध एतदाकर्ण्य विस्मयमनाश्वेतसीदं चिन्तयन्-'अहो ! अनादिकालीनोऽयं श्रीजिनधर्मः, महाप्रभावश्च / ततः स्वयं तत्र गत्वा आदिदेवं ननाम। ततोऽपि कामरूपेऽगात् कामाख्येक्षणकौतुकी / तत्र कामाक्षीदेवीभवने गतः / पूजार्थमागतं निजरूपनिर्जितकामवामाक्षीगर्वसर्वस्वं स्त्रीवृन्दं देशखमावान्मुक्तमर्यादं सकलकलाकुशलमवेक्ष्याचिन्तयत्५९. संसार ! तव निस्तारपदी न दवीयसि / अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः॥ 60. वैरिवारणदन्ताग्रे समामा स्थिरीकृता। वीरश्रीथर्महासत्त्वैयापिद्भिस्तेऽपि खण्डिताः / / 626. ततोऽगात् तत्र यत्रास्ति सर्परूपेण भूपतिः / भौतिकं दैवकं वापि यद्राज्ये न भयं भवेत् // 96 कश्चिदृद्धपार्थे सर्पराज्यकारणमपृच्छत्-तेनोक्तम्-'भो ! पुरा नागकुमारदेवस्थापितं नागेन्द्रपत्तनमिदम् / तत्र श्रीकान्तराजा अत्यन्तश्रीमान् दाता भोक्ता विवेकी प्रजाप्रियः परं यदपि तदपि कारणं प्राप्य क्रोधी भवति / " 61. यतः- नाकारणरुषां संख्या संख्याताः कारणे क्रुधः। ... कारणेऽपि न कुप्यन्ते ये ते जगति पंचषाः // 1 // ____ ततः स राजाऽन्यदा क्रोधान्धो व्रजन् सौधान्धकारे स्तम्भाभिघातमूच्छितो निःपुत्रो मृत्वाऽऽर्तध्यानवशात् सप्तफणालंकृतः सोऽभूत् स्वभाण्डागारे / स मंत्रिभिर्वारं वारं बहिर्मुक्तः स्वद्रविणगोहितः पुनः पुनस्तत्रैवायाति / राज्यं पुत्रं विना[शून्यं जातम् / वैरिभिर्निरुद्धम् / ततो महति संकटे लोकैः पुरस्थापकनागकुमारदेवः स्मृतः / स समायातः।" स जातिस्मरं नागं सप्तफणालंकृतं [दृष्ट्वा, अयं] अस्मदीयकुलोत्पन्नः, पुराऽप्यस्य पुरस्य खामी, ततोऽयमेव राजा भवतु,- इति नागकुमारदेवकृतराज्याभिषेकस्तत्प्रभावाद्राज्यं करोति / देवः सौस्थ्यं विधाय स्वस्थानमगात् / सोऽयं नागराजसाम्राज्यम् / एतन्निशम्य कुमारेण चिन्तितम्-'अहो ! दुर्गतिदाता क्रोधः / ततः पुरमध्ये - कुमारोगाचर्मकारबालचंद्रापणेऽन्यदा / उपानदर्थं तेनापि सादरं पूर्वनिर्मितम् // 97 उपानयुगलमेतद् युज्यते तव पादयोः / मूल्येनालं तव स्वामिन् ! मंगलीके मया कृतम् // 980 हृष्टश्च शुभवाक्येन शुश्राव कुमरस्तदा / पत्तने पादुकाराज्यं मरणं सिद्धभूपतेः॥ कुमारपालराजानं शृणोषि पत्तने यदा / शीघ्रमेयास्तदामव्य मोचिकं कुमरस्ततः // 200 उज्जयिन्यां सानुचरो गत्वाऽखण्डप्रयाणकैः / कन्नाली-सिद्धपुरेऽगालात्वाशेषकुटुम्बकम् // 201 तत्र पूर्वप्रतिपन्नमातुलस्य द्विजन्मनः / गृहे मुक्त्वा खकुटुम्बमेकाकी पत्तने ययौ // 202 627. गत्वा गृहे कृष्णभदेवस्य भगिनीपतेः / रात्रौ नमाम भगिनी कुमारः प्रमिलाभिधाम् // 2034 भ्रातेति प्रत्यभिज्ञाय तयापि नापितः स्वयम् / स्नाननीरे वीक्ष्य स्नातां दुर्गा शाकुनिकोऽब्रवीत् // 204 सप्ताहान्तर्भवान् राजा प्रमाणं शकुना यदि / तदाकर्ण्य भगिन्याऽपि विज्ञप्तं पत्युरात्मनः // . 205 मण्डलेशकृष्णदेवः कुमारं परिरभ्य तम् / तवैव राज्यं नान्यस्य मा विषीदेत्युवाच सः॥ 206 महितटदेशाधीशं विजयपालराणकम् / मित्रमाकार्य कृष्णेन पर्यालोचः कृतस्ततः // 207 अग्रे प्रधान श्चोलुक्यौ तौ द्वौ राज्यार्थमाहूतौ / महीपाल-रत्नपाली राज्यं त्वस्यैव मे मतिः // 208. द्वितीयेऽह्नि प्रधानानां ज्ञापयित्वेति तौ ततः / आजूहवत् कुमारं च श्रीजयसिंहमेरुके // 209 ततः प्रधानः सम्भूय पूर्व राज्यार्थमाहृतः / महीपालस्तु तान्नत्वा दत्तादेशं करोमि किम् // 210 तं विसृज्य रत्नपालस्तैराहूतो महेश्वरम् / प्रणम्य सचिवादींश्च प्राञ्जलिः प्राह पूर्ववत् // विसृष्टः सोऽप्यथाहूतः कुमारपाल ईश्वरम् / नत्वा सहेलमावर्योत्तरीयाञ्चलसञ्चयम् // 12 कुमारपालः [तैः] पृष्टः-'कथं राज्यं करिष्यसि ?' / कृपाणं दर्शितं तेन केनापि पठितं पदः॥ 13. 11