________________ .. पुरातनाचार्यसंगृहीत 115. ततस्तदीक्ष्य सोत्कण्ठः कन्यकुजपुरं ययौ / आम्राणां लक्षशो वीक्ष्य लक्षारामान् सविस्मयः॥ 87 पप्रच्छ कंचित् किमाम्रा दृश्यन्ते गणनातिगाः / सोऽप्यूचे न करोऽत्रास्ति चूतानां तद् घना अमी // 88 राज्येऽहमपि चूतानां करं मोक्ष्ये स्वनीवृति / विचिन्त्येति कुमारोज्गात् कासी निर्मरवेषमाक् // 89 प्रामन्नेकेन वणिजा वस्त्रायैः सत्कृतः कृती / द्वितीयेऽह्नि लुण्ट्यमानं तगृहं वीक्ष्य दुःखितः // 190 कंचित् पप्रच्छ किमिदं सोचेऽद्यापुत्रको वणिक् / मृतोऽसौ तद्गृहं तेन लुण्ट्यते राजपूरुपैः // 91 श्रुत्वेति चकितः खान्ते भवरूपं विभावयत् / यथा क्षणादसौ नष्टः श्रेष्ठी सर्व तथा भवेत् // 92 असारः संसारः सरलकदलीसारसदृशो, लसद्विद्युल्लेखाचकितचपलं जीवितमिदम् / यदेतत् तारुण्यं नगगतनदीवेगसदृशं, . अहो धाट्य पुंसां तदपि विषयान् धावति मनः॥१॥ कुमारश्चिन्तयदसौ धिग् राज्यं यदपुत्रिणाम् / म्लेच्छानामपि सर्वखं राजा गृह्णाति पुत्रवत् // 93 दुर्भिक्षोदयमन्नसंग्रहपरः पत्युर्वधं बन्धुकी, ध्यायत्यर्थपतेभिषक् गदगणोत्पातं कलिं नारदः। दोषग्राहिजनस्तु पश्यति परच्छिद्रं छलं शाकिनी, नि:पुत्रं म्रियमाणमाढ्यमवनीपालो हहा वाञ्छति // 1 // राज्ये नाहं ग्रहीष्यामि स्वदेशे स्वमपुत्रिणाम् / प्रतिज्ञायेति कुमरो गतः पाटलिपुत्रके॥ 94 तत्र च पुरा संजातनवनन्दकारितनववर्णमयपर्वतादिवरूपं श्रुत्वा मनस्यचिन्तयत् येषां वित्तः प्रतिपदमियं पूरिता भूतधात्री, यैरप्येतद् भुवनवलयं निर्जितं लीलयैव / तेऽप्येतस्मिन् गुरुभवहृदे बुद्बुदस्तम्पलीलां, धृत्वा धृत्वा सपदि विलयं भूभुजः संप्रयाताः॥१॥ यदस्माकं वित्तचयो भविष्यति तदा दानभोगादौ व्ययं करिष्याम इत्यादि बहु विचिन्त्याने चचाल / ततो राजगृहे गच्छन् वीक्ष्य वैभारपर्वतम् / श्रुत्वा समवसरणस्थानान्येष विसिष्मिये। 95 तत्र प्राग्भवपुण्यप्राग्भारशालिनः श्रीशालिभद्रस्य सौधनिर्माल्योत्तीर्णवर्णमाणिक्यमणिमयाभरणप्रक्षेपवापी* प्रमुखस्थानानि निरीक्ष्य भोगलीलां वैराग्यं च श्रुत्वा विस्मयस्मेरमनाश्चिन्तयति स्म / यथा५८. ब्रह्मज्ञानविवेकिनोऽमलधियः कुर्वन्त्यहो दुष्करं, ___ यन्मुश्चन्त्युपभोगभायपि धनान्येकान्ततो निस्पृहाः / न प्राप्तानि पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययाः, वाञ्छामात्रपरिग्रहाण्यपि परं त्यक्तुं न शक्ता वयम् // 1 // - ततो वैभारगिरिमारुरोह / श्रीशालिभद्रपादपोपगमानशनशिलातलादि निरीक्ष्य चेतसि चमत्कृतो वैराग्यवान् जातः / ततो नवद्वीपकदेशेषु गत्वाऽजयपुरं ययौ / तत्र बहिः सर्वर्तुपुष्पफलोपेतमनोरमोद्याने शकावतारतीर्थे गतः / तत्र कमपि वृद्धपुरुषं तत्स्वरूपमपृच्छत् / तेनोक्तम्-'पुरा श्रीयुगादिदेवस्य शतं पुत्रा आसन् / तेषु जयनामकुमारस्थापितमिदं जयपुरम् / अन्यदाऽत्र शक्रादिसुरासुरनरनिकरनायकसेव्यपादारविन्दः श्रीऋषमदेवः समवासार्षीत् / तदा समवसरणस्थाने शक्रनिर्मितः प्रासादोऽयम् / षड्ऋतुमयमुद्यानं च भगवत्पूजार्थमिदम् /