________________ कुमारपालप्रबोधप्रबन्ध अरौत्सीद् दुर्गमागत्य ततश्चित्राङ्गदोऽपि हि / नियत्रितपुरद्वारो लसत्युपरि निर्मयः ॥-युग्मस् // चराः कौरिकवेषेण वर्षेः कतिपयैः पुरम् / प्रविश्य शुश्रुवुर्वाचां गृहे शुल्काधिकारिणः // गवाक्षस्था मत्रिपुत्री लालयन्ती निजं सुतम् / भापते तात! किं नैते मुच्यन्ते वणिजारकाः।। हसित्वा तत्पिताहैते न वत्से ! वणिजारकाः / शंभलीशचमूरेषाऽवात्सीद् दुर्गजिघृक्षया // 74 वत्से ! जन्म यदा तेऽभूत् , तदेदं सैन्यमागतम् / त्वमूढा च पुत्रवती जाताप्येतत् तथैव च // 75 / तत् श्रुत्वा शंभलीशोऽपि ससैन्यो दुर्गमे पुरे / प्राप्तः प्रोक्तो गवाक्षस्थयकरीवेश्यया यतः // 76 47. गण्डूपदः किमधिरोहति मेरुशृङ्गं किं वा रवेरजगरो निरुणद्धि मार्गम्। शक्येषु वस्तुषु वुधाः श्रममारभन्ते दुर्गग्रहग्रहिलतां त्यज शंभलीश! // 1 // अथापसृत्य राज्ञापि प्रेषिता गूढपूरुषाः / समर्प्य प्राभृतं तस्याः प्रोचुः स्वामिनि ! नः प्रभुः // 77 जित्वा चित्राङ्गदं दुर्गजिघृक्षुस्त्वत्प्रसादतः / तत् प्रसीदादिशोपायं साऽपि हृष्टा जगाद तान् // 78. सर्वप्रतोलीरुद्घाट्य पूरितार्थिमनोरथः / भुंक्त चित्राङ्गदो नित्यं प्रवेष्टव्यं तदा त्वया // 79 विवृणोमि गवाक्षस्था यदा केशानहं तदा / ज्ञेया भोजनवेला सा तं ज्ञात्वा शंभलीशकः॥ 180 वर्करीगणिकाभेदाद् द्वितीये जगृहेऽह्नि तम् / दुर्ग ततश्चित्राङ्गदो गृहीत्वा स्वर्णपूरुषम् // 81 क्षीरकूषे ददौ झंपां तत् श्रुत्वा शंभलीशराद् / क्षीरकूपाजलं कृष्ट्वा दृष्ट्वा तं स्वर्णपूरुषम् // 82 यावदाकर्षते तावत् पुनः पूर्णः स कूपकः / विलक्षोऽप्यसौ मनसि स्त्रीचरित्रमचिन्तयत् // 48. एता हसन्ति च रुदन्ति च कार्यहेतोर्विश्वासयन्ति च परं न च विश्वसन्ति / तस्मान्नरेण कुलशीलसमन्वितेन नार्यः श्मशानघटिका इव वर्जनीयाः॥१॥ अपि च४९. संमोहयन्ति मदयन्ति विषादयन्ति निर्भर्त्सयन्ति रमयन्ति विडम्बयन्ति / एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति // 2 // " सउ चित्तहं सही मणहं पंचासटी हीयाई। अम्मी ते नर ढड्डसी जे पत्तिजइ ताहं // 3 // पाहित्थी सवि वंकडी किम पत्तिजि तास / नीयसिरि घड उवडावि करि पच्छइं दिइ जे पास // 4 // प्राप्तुं पारमपारस्य पारावारस्य पार्यते। स्त्रीणां प्रकृतिवक्राणां दुश्चरित्रस्य नो पुनः॥५॥ ततो विलक्ष्य चित्रागसुतं वाराहगुप्तकम् / संस्थाप्य च स्वयं राज्ये महोत्सवपुरस्सरम् // 84 शनैःशनैर्ऋजन् भूयः कन्यकुब्ज पुनर्गतः / स्वभाांग्रेऽपठद् दुर्ग भद्रो वादीश्वरोऽन्यदा // 85 चित्रकूटमिदं भद्रे ! पृथिव्यामेकलोचनम् / द्वितीयस्याम्बकस्यार्थे तपस्तपति मेदिनी // 1 // कुमारः सपरीवारः तत् श्रुत्वाऽऽरुह्य तं नगम् / विस्मितः सर्वतो वीक्ष्य दिग्भागान् निजगाद च // 86. 54. शैलाः सर्वे गण्डशैलानुकारा वृद्धा ग्रामाः क्षामधामोपमानाः। कुल्याकल्पाः प्रौढसिन्धुप्रवाहाः सन्दृश्यन्ते दूरतोऽत्राधिरूढैः॥१॥ _ ततः श्रीरघुवंशमौक्तिकश्रीकीर्तिधरराजर्षिपुत्रस्य सुकोसलमहर्षेः पूर्वभवमातृव्याघ्रीकृतोपसर्गस्य समुत्पन्न केवलज्ञानस्य निर्वाणभूमिकां चित्रकूटासन्नां नत्वा,