________________ कुमारपालदेवचरितम्। सिद्धमत्रः कुमारोऽथ नत्वा सर्वार्थयोगिनम् / कल्याणकटके देशे क्रमात् कान्तीपुरीं ययौ // 101 35. यतः-पुष्पेषु जाती नगरेषु कान्ती नारीषु रम्भा पुरुषेषु विष्णुः। __ सतीषु सीता द्रुषु कल्पवृक्षो जिनस्तु देवेषु नगेषु मेरुः॥१॥ 20. कुमारः कौतुकात् तस्यां भ्रमन् परिसरेऽन्यदा / कबन्धमेकमद्राक्षीद् वैरिणाऽपास्तमस्तकम् // 102 तत्पाघे मिलितः स्त्रीणां शुश्रावान्योऽन्यजल्पितम् / अहो कचकलापोऽस्य अहो श्रवणलम्बता // 103 अहो घनत्वं कूर्चस्य ताम्बूले व्यसनं तथा / अहो विरलदन्तत्वं श्रुत्वेत्येकां ततो जगौ॥ 104 कथमेतत् , ततस्ताश्चावीचन् किं चित्रमत्र यत् / दीर्घ वेणीसलं पृष्ठे स्कन्धे कुण्डलयोः किणे // 105 आनाभि हृदि गौरत्वात् दृश्यते श्मश्रुणः सलम् / ताम्बूलव्यसनाच्चैपोऽङ्गुष्ठश्चर्णेन चर्चितः // नित्यं विरलदन्तानां क्षित्या रक्ता कनिष्ठिका / तत् श्रुत्वाऽचिन्तयदसौ बहुरत्ना वसुन्धरा // 107 " 621. कृत्वा स्नानं कुमारोऽथ सरस्यमृतसागरे / तीरदेवकुले गत्वाऽर्यमानं ददृशे शिरः॥ तस्येतिवृत्तं पृष्टश्च कश्चन स्थविरोऽवदत् / पुरे हि प्रवरे राज्ञा कारिते सरसि स्वयम् // पद्मकोशाद् विनिर्गत्य शीर्षमेकं सकुण्डलम् / एकेन ब्रुडतीत्युक्त्वा निमज्जद् ददृशे स्वयम् // : तदर्थ पण्डितैः पृष्टैः प्राप्य मासचतुष्टयम् / तं ज्ञातुं प्रेषिता विप्राश्चत्वारो वृद्धसन्निधौ // 36. यदेका स्थविरो वेत्ति न तत्तरुणकोटयः। / यो नृपं लत्तया हन्ति वृद्धवाक्यात् स पूज्यते // 1 // तैश्च गत्या मरौ देशे स्थविरः कोऽप्यपृच्छत / स्वपिता दर्शितस्तेन तेनापि खपितामहः // सविंशतिशतवर्षदेशीयस्यास्य संनिधौ / विगैरपृच्छि शीर्षस्य ब्रुडतीत्युक्तिकारणम् // . सोऽप्यूचे भोजयित्वा तान् शुनीडिम्भचतुष्टयम् / गृहीतेदं महामूल्यं शुद्ध्यत्यध्वव्ययो यतः॥ 14 लोभाद् विप्रा अपि कटौ कृत्वा तांश्चलनाक्षमान् / व्याघुटन्तं वृद्धमूचुः स्वसन्देहस्तथैव नः // 15 संशयश्छिन्न एवायमित्युक्ते तेन तेऽभ्यधुः / कथं स ऊचे शास्त्रज्ञा अप्येतदपि वेत्थ न // 37. श्वानगर्दभचाण्डालमद्यभाण्डरजखलाः। स्पृष्ट्वा देवकुलं चैव सचैलं लानमाचरेत् // 1 // शास्त्रे निषिद्धः संस्पर्शी विप्राणां युज्यते कथम् / तेऽप्यूचुर्बहुमूल्यानि श्वडिम्भानि त्वमप्यधाः॥ 17 ततोऽस्माभिर्गृहीतानि लोभाद् विक्रीयते न किम् / ऊचे वृद्धस्तदेवेदं विश्वं बुडति लोभतः // 18 इति ते छिन्नसन्देहाः कुमारेहागताः पुनः। पण्डितैः पुस्तकेष्वेवं लिखितोऽर्थः सविस्तरः // 19 राज्ञेऽदर्शि नृपोऽप्याह सत्यमेतत् शिरो यदि / श्रुत्वेनमर्थं न पुनः सरसो निःसरिष्यति // 120 तथाकृते तथाजाते चैत्यं निर्माय भूभुजा / देवस्थाने स्थापितं च शीर्षमेतत् प्रसिद्धये // तत् श्रुत्वा विविधाश्चर्यदर्शनाजातनिश्चयः / किंचित् कालं कुमारोऽपि स्थित्वा कान्त्या विनिर्ययौ // 22 6 22. मल्लिनाटजनपदे गतः कोलंबपत्तने / महालक्ष्या च कोलंबस्वामी स्वप्ने न्यगद्यत // भविष्यो गूर्जरात्रायाः स्वामी यस्तव पत्तने / समेष्यति जटाधारी विधेयं तस्य पूजनम् // 24 चतसृषु दिक्षु मुक्तैः पुरुपैः पुरसीमनि / यथोक्तलक्षणैर्वीक्ष्य कुमारो भक्तिपूर्वकम् // आहूय नृपतेः पार्थे समानिन्ये ततो नृपः / अभ्युत्थाय स्वकीया सने तं स न्यवेशयत् // निगद्य च तमादेशं राज्ञा राज्ये निमत्रितः / निषिद्धः कुमारस्तस्य पार्थे तस्थौ यथासुखम् // 27 21 13