________________ श्रीसोमतिलकसूरिविरचितं श्रीविक्रमाद्धि शरदा नवनवत्यधिकेषु कार्तिके मासे / हस्तार्करवौ द्वितीयायां गतेष्वेकादशशतेषु // 79 भवतस्तदाऽभिपेको न भवति यदि राज्यसम्भवस्तन्मे / यावजीवं नियमोऽतः परं सन्निमित्तस्य // 80 इति निश्चयं श्रुत्वा कुमारपालः प्राह-'यद्यदः सत्यं ततस्त्वमेव राजाऽहं तव सेवकः' / श्रीसूरिर्वमाषे'राजन् ! सुरासुरनरनिकरनायकमुकुटमणिकिरणनीराजितपादारविन्दस्य श्रीसर्वज्ञस्य शासने प्रभावको भवतु भवान् / इति प्रतिपन्नं राज्ञा / इतश्चागादुदयनो गुरून्नन्तुं सुतैः सह / आख्यायाम-बप्पभट्योदृष्टान्तं हेमसूरिभिः // 81 प्रोक्तं चेति कुमारोऽयं भविता परमार्हतः / सार्वभूमस्ततो मत्रीन् ! सन्मान्योऽयं महादरात् // 82 118. अस्योदयनस्य पुण्योदयः कथ्यते / यथा- पूर्व मरुमण्डलवास्तव्यः श्रीमालवंश्य ऊदामिधानो वणिक आवृषि काले प्राज्याज्यक्रयाय निशीथे वजन्, कर्मकरैरेकस्मात् केदारादपरस्मिन् पूर्यमाणेऽम्भोभिः 'के यूयमिति तान् पप्रच्छ / तैर्वयममुकस्य कामुका इत्यमिहिते, 'ममापि क्वापि सन्ती'ति पृच्छन् , तैः "कर्णावत्यां तवापि, सन्ति' इति अभिहिते स सकुटुम्बस्तत्र गत्वा वायडीयजिनायतने विधिवद् देवान्नमस्कुर्वन् , कया छिपिकया श्राविकया साधर्मिकत्वाद् ववन्दे / पृष्टश्चेति-'भवान् कस्यातिथिः / तेनोक्तम्-'वैदेशिकोऽहमिति भवत्या एवातिथिः' इति तद्वाक्ये श्रुते तं सह नीत्वा कस्यापि वणिजो गृहे कारितान्नपाकेन भोजयित्वा, निजतलके निर्मा[पि] तकायमाने निवास्य स्थापितः / स तत्र सम्पन्नसम्पत् इष्टकं गृहं चिकीर्षुः खातावसरे निरवधि सेवधिमधिगम्य तामेव नियमाकार्य समर्पयत् / तया निषिद्धः / तत्प्रभावेन ततःप्रभृति उदयसंयुक्तत्वात् उदयननामा मत्रीति , * पाये / तेन कर्णावत्यामतीत-वर्तमान-भविष्यच्चतुर्विशतिजिनसमलंकृतः श्रीउदयनविहारः कारितः / तस्यापरमातृका पाहड-सोला-आंबड-चाहडदेवनामानश्चत्वारः सुता अभूवन् / कुमारोऽप्युदयनस्य गृहेऽतिष्ठत् तदाऽन्यदा / केनाप्युक्तः सिद्धराजः प्रैषीत् तत्प्रति घातकान् // 83 तत् श्रुत्वा कुमारो भीतः प्राणत्राणकृते कृती / एकाकी निशि निर्गत्य जगाम वटपद्रके // 84 विंशोपकैकचणकान् कडूवणिज आपणे / क्षुधातॊ भक्षयित्वाऽसौ खड्गमड्डाणके ददौ // निर्देव्यं राजपत्रं तं विलोक्य वणिगचिवान् / खड्ड्रेनालं मंगलीके भवन्त चणकास्तव // कन्नाली-सिद्धपुरके जटीभूत्वाऽथ सोऽगमत् / सिद्धेश्वरस्य पूजार्थ स्थापितस्तन्निवासिभिः // तत्रैकदा शकुनिनं मारवं पृष्टवानसौ / वाञ्छिताप्तिः कदा मे स्यात् सोऽप्यूचे प्रातरापतेः // प्रातमिलित्वा शकुनान्वेषणाय गतावुभौ / मुनिसुव्रतचैत्योद्धं दृष्ट्वा दुर्गा स्थितौ ततः॥ शुभचेष्टाऽकरोद् दुर्गाऽमलसारे स्वरद्वयम् / स्वरत्रयं च कलशे दण्डे स्वरचतुष्टयम् // हृष्टः शाकुनिकोऽवोचत् सिद्धिस्ते वाञ्छिताधिका / भाविन्येव विशेषात्तु जिनभक्तिप्रभावतः // वस्त्रैः संपूज्य कुमरस्तं मुक्त्वा तापसव्रतम् / गत्वाऽवन्त्यां खजनानां मिलित्वा सिद्धराट्भयात् // 92 क्वचिद्योगी क्वचिद्वौद्धः कचित्तापसवेषभृत् / क्वचित्कार्पटिकाकारो भृशं बभ्राम भूतले // 319. गत्वा कोलापुरेऽद्राक्षीद् दानभोगादिसद्गुणम् / सर्वार्थसिद्धियोगीन्द्रं सेवित्वा चाप्यतोषयत् // 94 उवाच योगी मत्री स्त एकः साम्राज्यदायकः / खेच्छया धनदाताऽन्य आधः सोपद्रवः पुनः॥ 95. सत्त्वसारः कुमारोऽथ मत्रं जग्राह राज्यदम् / उक्तेन तेन विधिना पूर्व सेवां व्यधत्त सः॥ ततः कृष्णचतुर्दश्यां गत्वा पितृवने निशि / शबस्य वक्षसि न्यस्य वह्निकुण्डं स्वयं पुनः॥ उपविश्य तस्य कट्यां यावद् होमं ददाति सः / करालमूर्तिः प्रत्यक्षस्तावत् क्षेत्राधिपोऽवदत् // 98 मामनभ्यर्च्य रे धृष्ट ! किमारब्धं मुमूर्षुणा / इति श्रुत्वापि निःक्षोभः सोऽपि जापं समापयत् // 99 सदा च मूत्वा प्रत्यक्षं महालक्ष्मीरवोचत / गूर्जरात्राधिपत्वं ते दत्तं वर्षेस्तु पश्चमिः // 86 88 9.3