________________ इमारपालदेवचरितम् / तावदुजागरोद्विनौ जनकावूचतुस्तयोः / भवतां मत्रणैर्दग्धाः केयं जागरिका मुधा // 60 यद्वा कुमारपालस्य राज्यं यदि भविष्यति / तत्कयं वोसिरे! तुभ्यं लाटदेशं प्रदास्यति // 61 किंच रे आलिग! तव चित्रकूटस्य पट्टिकाम् / बबन्ध शकुनग्रन्थिस्तत् श्रुत्वा राजनन्दनः // 62 आलिगं भोपलदेव्या सहाप्रैषीदवन्तिकाम् / स्वयं वोसिरियुक्तस्तु चेले देशान्तरं प्रति // 63 व्रजन्नेवं कुमारोऽपि नानाश्चर्यावलोकधीः / विश्रान्तस्तरुच्छायायां यावदस्ति समाहितः। , 64 तावद् बिलान्मूषकं मुखेन रूपनाणकमाकर्षन्तं निभृततया विलोक्य यावदेकविंशतिसंख्यानि दृष्ट्वा एक गृहीत्वा बिलं प्रविष्टः / कुमारपालः पाश्चात्यानि तु सर्वाणि गृहीत्वा यावन्निभृतीभूत्वा तिष्ठति तावन्मूषकस्तान्य. नवलोक्य तदा विपेदे / तच्छोकशङ्काव्याकुलितमानसश्चिरं परितप्य चेतसीदं चिन्तयामास अर्थानामर्जने दुःखमर्जितानां च रक्षणे / आये दुःखं व्यये दुःखं धिगर्थो दुःखभाजनम् // 1 // धनेषु जीवितव्येषु स्त्रीषु चान्नेषु सर्वदा।। अतृप्ताः प्राणिनः सर्वे याता यास्यन्ति यान्ति च // 2 // ___ तस्मात् पुरो व्रजन् कयापि इभ्यवध्वा श्वशुरगृहात् पितुहं व्रजन्त्या, पथि पाथेयाभावाद् दिनत्रयक्षुत्क्षामकुक्षि तृवाच्छ(त्स)ल्यात् कुमारपालः कर्पूरपरिमलशालिना शालिकरंबेन सुहितीचके / तदौचित्येन हृष्टो॥ऽचिन्तयत्३२. करचलुयपाणिएण वि अवसरदिन्नण मुच्छियं जियइ।.. पच्छा मुयाण सुंदर! घडसयदिन्नेण किं तेण // 1 // जं अवसरेण न हुयं दाणं विणओ सुभासियं वयणं / पच्छागयकालेणं अवसररहिएण किं तेण // 2 // तस्मिन् करोटकग्रामे उषित्वा जातलंघनौ / अच्छाबिल्पां द्वितीयेऽह्नि प्रयातौ प्रहरद्वये // 65 कुमारो वोसिरिं प्राह अद्य स्याद् भोजनं कथम् / सोऽप्याहास्ति जननी मे सा मे दास्यति भोजनम् // 66 34. यतः-प्रतिदिनमयत्नलभ्ये ! भिक्षुकजनजननि ! कल्पलते!। . नृपतिनतिनरकतारणि! भगवति भिक्षे! नमस्तुभ्यम् // 1 // इत्युक्त्वा वोसिरिभिक्षां कृत्वा यातस्तदन्तिके / करम्भकुम्भी संगोप्य भिक्षासुंडीमुपानयत् // भुक्त्वोभावपि सुप्त्वा च पूर्वमादाय वोसिरिः। करम्भं यावदनाति कुमारोऽचिन्तयत् तदा // 68 अहोऽस्यादूनता येन सुप्ते मय्येककोऽत्त्यसौ / जीणे करम्भे सोऽप्याहोत्तिष्ठ भुंक्ष्व नृपात्मज! // ऊचे कुमारः किं पूर्वमेकाकी भुक्तवान् भवान् / स ऊचे मम भिक्षार्थ गतस्योक्तं स्त्रियैकया // करम्भकुम्भं हे विप्र ! रात्रावुद्घाटितं स्थितम् / गृहाण यदि ते कार्य न पुनर्मम दूषणम् // वरं भवति मे मृत्यू रक्षणीयो भवान् पुनः / गोपितः स मयादाय स्वयं भुक्त्वा परीक्षितः // राज्ये दास्ये तव ग्राममेनमुक्त्वेति राजसूः / प्राप्तो डांगुरिकाग्रामे साध्वीलक्ष्मीश्रियो मठे // तथा च क्षुधितो ज्ञात्वा भोजितश्चारुमोदकैः / तयैवार्पितपाथेयः पाटलापद्रकं गतः // तत्रेश्वरवणिग्वाट्यां प्रविष्टस्य पटी गता / न लब्ध्वा चाटुभिरपि विषादोऽस्य महानभूत् // ... प्रावृत्य वोसिरिपटीं स्तम्भतीर्थे गतस्ततः / श्रीहेमसूरीन् पप्रच्छ कदा सेत्स्यति वाञ्छितम् // 76 लोकोत्तराणि चिह्नानि तदङ्गे वीक्ष्य सर्वतः / तेऽप्यूचुर्नृपतिर्भावी सार्वभौमो नरोत्तमः // तां च वाणी निशम्यासौ हर्षमालासमाकुलः / उवाच राज्यसन्देहो पनि)यते तु क्षुधाधुना //