________________ 29. 40 // श्रीसोमतिलकरिविरचितं मुद्गानुद्गतमुद्गरानुरुगदाघातोयतान् व्यन्तरान, वेतालानतुलानलाभविकटान झोटिंगचेटानपि / जित्वा सत्वरमाजितः पितृवने नक्तंचराधीश्वरं, पद्धा धर्मरमुरापतिरसौ चक्रे चिरात् किंकरम् // 1 // एवं सर्वत्राखण्डप्रतापो जयसिंहो राज्यं करोति / / 617. इतश्च क्षेमराजस्य पुत्रो देवप्रसादकः / तस्य पुत्रात्रिभुवन-देवपालादयोऽभवन् // 32 त्रिभुवनपालस्याभूत् सुतैका तनयास्त्रयः / आद्यः कुमारपालाख्यो राजलक्षणलक्षितः॥ 33 महीपालः कीर्तिपालस्तथा प्रीमलदेव्यभूत् / श्रीकृष्णदेवभट्टेन योढा मोहडवासके // 34 भार्या भोपलदेवीति कुमारस्य बभूव च। [कुमारपालस्य पुत्री लीलू / इति टिप्पण्याम् / ] - अत्रान्तरे सिद्धराजो दैवज्ञं पृष्टवानिति // . मम पट्टे को भविता सोऽप्यूचेऽस्ति महाभुजः / मध्ये दधिस्थलीकाया यस्ते भ्रातृव्यनन्दनः // 36 राज्यं नो मम पुत्रस्य जीवति भ्रातृनप्तरि / तत्तं ज्ञात्वा हनिष्यामीत्यचिन्तयदयं नृपः // ततोऽसौ पादचारेण कपोतीमहन् स्वयम् / गत्वा प्रभासे पत्रार्थ सोमनाथमयाचयत // सोमनाथोऽप्यथोवाच मया राज्यधरः पुरा / सृष्टः कुमारपालोऽस्ति तदलं पुत्रयाञ्जया // सविषादस्ततो भूपो व्यावृत्तः पत्तनं प्रति / अस्मिन् जीवति पुत्रोऽपि न मे भावीत्यचिन्तयत् // मत्रिणेऽकथयचैतत् सोऽप्यूचे युक्तमेव तत् / यदा पूर्व देवपादाः विजेतुं मालवान् गताः॥ घाटे दुद्धिलिकायाश्च संरुद्धे यशवर्मणा / युष्माभिर्ज्ञापितश्चाहं पारापतप्रयोगतः // 42 त्रिभुवनपालस्यैतत् तदा राज्यं समर्पितम् / त्वत्समीपेऽहमायातस्तेन राज्यं वशीकृतम् // निर्जित्य जसवणिं त्वय्यायातेऽपि वक्ति सः / राज्यं दास्ये स्वपुत्राय हत्वा सिद्धनरेश्वरम् // इति मत्रिवचः श्रुत्वा क्रुद्धः सिद्धाधिपस्ततः / त्रिभुवनपालदेवं घातयामास घातकैः॥ ... कुमारपालोऽप्यवन्त्यां प्रेष्य भ्रातृपितृव्यकान् / भार्या भोपलदेवीं तु दधिस्थल्याममुश्चत // 46 स्वयं तु त्रिपुरुषाणां मठाधिपतिसन्निधौ / कपटेन जटाधारी भूत्वा श्रीपत्तने स्थितः // * सिद्धराजोऽपि तत्रस्थं ज्ञात्वा तं च कथंचनः / क्षयाह्ने कर्णदेवस्य द्वात्रिंशत्तापसैः सह // 48 तं निमत्र्य मठाधीशं पंक्त्या धावन् पदौ स्वयम् / ददर्श राजचिह्नानि कुमारस्य च पादयोः॥ उपलक्ष्य कुमारं तं राज्ञा पृष्टो मठाधिपः / अवोचच्च त्रयस्त्रिंशत्तापसा वयमास्महे // नानाविधैर्भक्ष्यभोज्यै राजा संभोज्य तानथ / धौतापोतीकृते तेषां भाण्डागारे खयं गतः // अत्रान्तरे कुमारोऽपि गृहीत्वा कुण्डिकां करे / उत्क्रान्तिव्याजतो नंष्ट्वा कुम्भकारगृहं गतः // आपाके रच्यमाने तु मृत्पात्राणां कृपालुना / आलिगेन तदन्तस्तं निधायेति सुरक्षितः॥ सिद्धराजोऽप्यदृष्ट्वा तं पृष्ठेऽषीच साधनम् / आगतं साधनं प्रेक्ष्य ययौ सन्मुखमालिगः॥ 54 राट्पुरुषैस्ततः पृष्टं पुमान् कश्चिदिहाययौ? / किमन्धा यूयमग्रेऽपि किं न पश्यथ पावकम् // 55 // राजलोके गते तेन नोशितोऽनाशितो निशि / दृष्ट्वा सैन्यं प्रागकस्मात् कुमारो हालिकं जगौ रक्ष मामिति तेनापि संछन्नः कण्टकाभरैः / तमदृष्ट्वा सैन्यमपि गतं व्याघुट्य पत्तने // निःसृत्याथ कुमारोऽपि मुण्डाप्य विकटा जटाः / गत्वा दधिस्थली रात्रौ मिलितः खजनैः समम् // 58 आकार्य वोसिरिं मित्रं कुलालमालिगं तथा / गन्तुं देशान्तरं ताभ्यां सह यावदमत्रयत् // 59 1 श्राद्धदिने / 3 निष्काशितः। 50 56