________________ // श्रीवीतरागाय नमः // # शास्त्रस्वाध्याय का प्रारम्भिक मंगलाचरण ॐ नमः सिद्धेभ्यः! ॐ नमः सिद्धेभ्यः! ॐ नमः सिद्धेभ्यः ! ओंकारं बिन्दुसंयुक्तं, नित्यं ध्यायन्ति योगिनः / कामदं मोक्षदं चैव, ॐकाराय नमोनमः // अविरलशब्दघनौघ-प्रक्षालितसकल-भूतलकलङ्का / मुनिभिरुपासिततीर्था, सरस्वती हरतु नो दुरितम् // अज्ञानतिमिरान्धानां, ज्ञानाञ्जनशलाकया। चक्षुरुन्मीलितं येन, तस्मै श्रीगुरवे नमः / / श्रीपरमगुरवे नमः, परम्पराचार्यगुरुभ्यो नमः। सकलकलुषविध्वंसकं, श्रेयसां परिवर्धक, धर्मसम्बन्धकं, भव्यजीवमन:प्रतिबोधकारकं, पुण्यप्रकाशकं, पापप्रणाशकमिदं शास्त्रं 'श्रीतत्त्वार्थश्लोकवार्तिकालङ्कार' नामधेयं अस्य मूलग्रन्थकर्तारः श्रीसर्वज्ञदेवास्तदुत्तरग्रन्थकर्तारः श्रीगणधरदेवाः प्रतिगणधरदेवास्तेषां वचोऽनुसारतामासाद्य पूज्य श्रीविद्यानन्दाचार्येण विरचितं इदं शास्त्रं / श्रोतार: सावधानतया शृण्वन्तु। . मङ्गलं भगवान् वीरो, मङ्गलं गौतमो गणी। मङ्गलं कुन्दकुन्दाद्यो, जैनधर्मोऽस्तु मङ्गलम्॥ सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् / प्रधानं सर्वधर्माणां, जैनं जयति शासनम् / /