________________
४६
श्रीतिलकाचार्यविरचितटीकायुतम् विषावेगेन तत्कालं, मूर्छितः स भुवं गतः । तत्क्षणादागतो राजा, मंत्री मान्त्रिकसङ्गतः ।।१६० ।। तदोपाचर्यतात्यन्तं, मन्त्रतन्त्रप्रयोगतः । परं नैवावलन् मूर्छा, गतेव शकुनैः शुभैः ।।१६१ ।। शक्रशस्रमिवामोघं, प्राणहार्येव तद्विषम् । ततो निराशः क्षोणीशो, मुमूर्छ विललाप च ।।१६२।। जगन्मित्रस्य पुत्रस्य, सुमित्रस्य शुचा तदा । तदाशेषमपि पुरं, निर्मग्नं शोकसागरे ।।१६३।। अतुच्छमूर्च्छयेवासीत्, मूर्छितः च्छन्नचेतनः । । तदाखिले पुरे शोकात्, सकलोऽमङ्गलध्वनिः ।।१६४ ।। सर्वदोज्जागरात् स्वैर-क्रीडनात् श्रान्तवान् किल । प्रमोदः सर्वथाप्यासी-न्मुद्रितो निद्रया तदा ।।१६५।। ..
अत्रान्तरे चित्रगतिः, कौतुकादीक्षितुं क्षितिम् । , क्रीमन् व्योम्नि विमानेन, तदागात् तत्पुरोपरि ।।१६६।। तत्तथाविधमालोक्य, लोकोपकृतिकर्मठः । कृपालुः कृपयेवोक्तोऽवातरन्नृपमन्दिरे ।।१६७।। पृष्टः शोकार्थं राजाख्यत्, सोऽव॑म् मा देव! खिद्यताम् । अभिमन्त्र्य पयोऽसिञ्चत्, कुमारं खेचरोत्तमः ।।१६८ ।। स सुप्तबुद्धवत् क्षिप्र-मुत्तस्थौ स्वस्थमानसः । मणिमन्त्रौषधादीनां, प्रभावोऽचिन्त्य एव तत् ।।१६९।। अपृच्छद् विस्मितः सोऽथ, किमेतद् भेषजादिकम् ।
राजोचे ते विषं भद्रा, ददावेष न्यवर्त्तयत् ।।१७०।। १. जाङ्गलिकवैद्यसहित ९ टि० ।। * ०पाचयता० २.६.८ १०, ०षाचर्यता० ५ ।। २. यथा शुभैः शकुनै न कोपि व्याघुटति, तद्वत् मूर्छा न वलिता ९ टि० ।। ३. शोकेन ९ टि० ।। चिर० २ ।। - का० २ ।। ४. पुरम् ९ टि० ।। ५. तादृशं शोकाकुलम् ९ टि० ।। ६. उपकारकर्मणि शूरः ९ टि० ।। * ०त० २ ।। ०यै० २, व्योत्तालो० इति १०, अयं मूलपाठः १० टिप्पण्यामपि ।। ७. उत्तीर्णः इति ९ टि० ।।+ ख्या० १ ।। ८. खेचरः राजानं प्रति अवादीत् ९ टि० ।। ९. राज्ञी १ टि० ।। १०. खेचरो विषमहार्षीत् ९ टि०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org