________________
४७
श्रीदशवकालिकसूत्रम् सुमित्रः स्माह हृष्टात्मा, खेचरानुचरं प्रति ।। स्वस्वाम्यन्वयनामाद्यैः, प्रीणयास्मान् सुधायितैः ।।१७१।। सर्वं चित्रगर्मन्त्रि-नन्दनोऽनुचरस्ततः । तेषां शशंस तन्नामा-दिकं कर्णरसायनम् ।।१७२।। अथ इष्टः सुमित्रोऽवक्, भद्रं मे भद्रया कृतम् । नो चेत्तव जगद्वन्धोः, संयोगः स्यात्कथं मम ? ।।१७३।। न केवलं जीवितं मे, दत्तवानसि वत्सल! । बालमृत्युभवायाश्चारक्षस्त्वं दुर्गतेरपि ।।१७४ ।। नालं प्रत्युपकारेऽहं, तवाकारणवत्सल! । विस्मार्षीर्मा स्म मां बन्धो!, प्रार्थयेऽहमिदं पुनः ।।१७५ ।।
अथ चित्रगति गन्तु-मनसं स्वपुरं प्रति । सुमित्रः स्माह तिष्ठ त्वं, बन्धो! कतिपयान् दिनान् ।।१७६।। मध्ये दिनानां द्वित्राणा-मिहायास्यति केवली । सुयशाः सान्वयाभिख्य-स्तं नत्वा स्वपुरं व्रजेः ।।१७७।। तस्थौ सुमित्राऽर्थनया, केवल्यपि समागमत् । सर्वेऽपि वन्दितुं जग्मुः, केवली धर्ममादिशत् ।।१७८ ।। अगण्यपुण्यपण्यौघे, मनःसद्मनि दाहकृत् । ज्वलदूर्णायुवन्नान्त:-क्षेप्यः कोपः कदाचन ।।१७९।। मानहस्ती निरोधव्यः, प्रविशन्नपि मानसे । पुण्याम्भोजवनभ्रंशी, गाहयन् कलुषत्वकृत् ।।१८०।। माया बिभीतकच्छाया-वद्विवा विचक्षणैः ।।
स्त्रीत्वादिदुःखकृत्पाप-कौणपच्छलनाभयात् ।।१८१।। * तु० ६-१० ।। १. अमृतोपमैः ९ टि० ।। . पि० ६.८.९ ।। २. सुमित्रपितृमात्रादीनां पुरः चित्रगतेदशादिकं कथयामास ९ टि० ।। ३. भद्रया जनन्या समीचीनं कृतं, यद्विषं दत्तं मया साधु मानितम् ९ टि० ।। - निति ६.९ ।। ४. मूर्खमरणोत्पन्नयाः दुर्गतितो रक्षितवान् ९ टि० ।। * मित्र त्वं तिष्ठे: २.५-७.९, मित्र त्वं तिष्ठ ८.१० ।। ५. सुमित्रप्रार्थनया ९ टि० ।। ६. मेष वा कम्बल १० टि०, उनकम्बलवत् ।। ७. कलहकारित्वाद् बिभीतकच्छाया यथा वर्जनीया, तथेयं मायाऽपि वर्जनीया ।। ८. राक्षस २.१० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org