________________
४८
श्रीतिलकाचार्यविरचितटीकायुतम् वय॑न् लोभो निवोऽयं, कृष्णपक्षान्धकारवत् । विवेकलोचनं लुम्पन्, भिन्दन् पुण्येन्दुमण्डलम् ।।१८२।। चतुरश्चतुरोऽप्येतान्, यस्त्यजत्यखिलानपि । चतस्रोऽपिगतीश्छित्त्वा, सोऽश्नुते पञ्चमींगतिम् ।।१८३।।
श्रुत्वेति देशनां चित्रगतिरूचे मुनिं प्रति । स्वामिन् ! सुमित्रो मित्रं मे, पूज्यपादानदर्शयत् ।।१८४ ।। अज्ञानतिमिरच्छन्नं, पूज्यव्याख्याशलाकया । चक्षुरुद्घटितं मेऽद्य, ततो धर्मं प्रयच्छत ।।१८५।। इत्युक्त्वा गृहिणां धर्म, सम्यक् सम्यक्त्वपूर्वकम् ।
वैरङ्गिकमनोवृत्ति-मूले केवलिनोऽग्रहीत् ।।१८६।। नत्वा सुग्रीवराजाप्य-पृच्छत् क्वागाद् विषप्रदा ? । स्वाम्यूचे विषदेषेति, वाच्यं श्रुत्वा नैनाश सा ।।१८७।। . नश्यन्ती तस्करैरात्ता, तैः पल्लीपतयेऽर्पिता । स व्यक्रीणाद् वणिक्पाचे, ततो नष्टा दवान्मृता ।।१८८ ।। गताद्यपृथ्व्यां भूत्वाथ, गुर्विणी श्वैपचप्रिया । सपत्नीकर्तिकाकृती, तृतीयो| गमिष्यति ।।१८९।। ततोऽप्युत्पद्य तिर्यक्षु, भवेऽनन्ते भ्रमिष्यति । सम्यग्दृशः सुमित्रस्य, विषदानोत्थपाप्मना ।।१९०।। तदाकर्ण्य व्रताकाङ्क्षी, सुग्रीवः ससुतोऽभवत् । सम्बोध्याथ सुतं राजा, राज्ये न्यस्याऽग्रहीद् व्रतम् ।।१९१।।
ततः सुग्रीवराजर्षि-र्व्यहार्षीद् गुरुभिः सह । मित्रं सुमित्रमापृच्छय, स्वेऽगाञ्चित्रगतिः पुरे ।।१९२।। सुमित्रः कत्यपि ग्रामान, वैमात्रेयाय दत्तवान् ।
असन्तुष्टः परं तैः स, पद्मः क्वाप्यन्यतोऽगमत् ।।१९३।। १. चतुरपुमान् एतान् क्रोधादीन् चतुरांस्त्यजति ९ टि० ।। २. प्राप्नोति-लभते ९ टि० ।। * ०द्धा० ६.८-१० ।। • तम् ७.९ ।। ३. समीपे ९ टि० ।। ४. भद्रा ९ टि० ।। - सोऽप्यू० ६-१० ।। ५..नष्टा ९ टि० ।। ६. चाण्डाल ।। ७. सपन्या कर्तिकया कृत्तेति बोध्यम्-गर्भ सपन्या च, गले कर्तिकया हता। [त्रिषष्टि पर्व ८-११८६] ।। र्तृ० ६-१० ।। ३ ०त्वा ४.६-८.।। + गृहे ९ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org