SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीदशवकालिकसूत्रम् गतश्चित्रगतिश्चात्म-नगरे धर्मतत्परः । व्यापारैर्देवपूजाद्यै-या॑पृतोऽस्ति सदैव च ।।१९४ ।। इतः सुमित्रभगिनीं, कलिङ्गनृपवल्लभाम् । अदृष्टः कोऽपि हृत्वाऽगाजानकीमिव रावणः ।।१९५।। सुमित्रोऽथ शुचं प्राप्तस्तत्प्रत्यागतिचिन्तया । ज्ञात्वा चित्रगतिस्तञ्च, कुतश्चन नभश्चरात् ।।१९६।। खेचरैस्तमथावोचदत्रार्थे मा व्यथां कृथाः । स्वसारमहमानेष्ये, कृष्णवद् द्रुपदात्नाम् ।।१९७ ।। युग्मम् अथ चित्रगतिर्विद्यां, पप्रच्छाख्यदसावपि । सुतेनानङ्गसिंहस्य, कमलेन हतास्ति सा ।।१९८ ।। सौघेण ततश्चित्रगतियति स्म तत्पुरे । कमलोऽप्यभ्यमित्रोऽभूत्, ततः प्रववृत्ते रणः ।।१९९।। शरवृष्ट्याऽम्बुवृष्टयेव, सङ्ग्रामकमलाकरे । न्यमज्जि कमलश्चित्रगतिना तत्र तत्क्षणात् ।।२०० ।। ततः सुतपराभूति-व्यथितोऽनङ्गसिंहराट् । सिंहनादं विमुञ्चानः, प्राप्तवान् यो मुद्धतः ।।२०१।। जगज्जनचमत्कारी, तेन चित्रगतेस्तदा । शस्त्राशस्रिरणः सोऽभूद्, देवदानवयोरिव ।।२०२।। अथाऽजय्यं चित्रगति, विज्ञायानङ्गकेशरी । देवताधिष्ठितं खड्रग-रत्नं सस्मार सेस्मयः ।।२०३।। करवालं करालं तत्, करालङ्कार्यभूत् क्षणात् । अमोघं चक्रिणश्चक्रं, वज्रं वा वज्रिणो यथा ।।२०४।। ऊचे चित्रगतिं बाल!, याहि जीव सुखीभव । नो चेत्करिष्यसेऽनेन, धकाराक्षरवत् क्षणात् ।।२०५।। १. अन्तरात्मरूपनगरे ।। * ततः २ ।। . ०प्यसुखं ६-१० ।। २. अथ चित्रगतिः खेचरैः तं सुमित्रमकथयत् ।। ० ००६ ।। ३. शत्रुमभिसामर्थ्येन गन्तृ १० टि०।। * भि० ८ ।। ४. अनङ्गसिंहेन सह ।। स० ८॥५. सकोपः ९ टि०, सगर्वः १० टि० ।। ६. मसली नाखीश इति भाषा० ।। . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy