SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ५० . श्रीतिलकाचार्यविरचितटीकायुतम् ऊँचे सौरिः किमेतेन, लोहखण्डेन गर्वितः । अस्मरत् तामसी विद्यां, सद्यः सूरनृपात्मजः ।।२०६।। मुञ्चति स्मान्धकारात्रं, प्रत्यर्थिनयनान्ध्यदम् । अन्धपट्ट इवाबद्धो-ऽनङ्गसिंहदृशोस्तदा ।।२०७।। अप्यौषधीपतिप्राण-प्रिया मन्त्रैर्दिवापि हि । आविर्बभूवाकृष्टेव, यामिनी भामिनी किल ।।२०८।। सम्भ्रान्तव द्विषः सेना, तदानीमवनीं गता । अन्तस्तमः समुद्रस्य, मज्जति स्म गतस्मया ।।२०९।। नालोकत हृतालोकः, पुरस्थानपि विद्विषः । समस्तं तमसा ग्रस्त-मिव विश्वं विवेद राट् ।।२१०।। तदा तस्य कराञ्चित्रगतिः खड्गं तमाच्छिदत् । कालियाहिमिवोर्पेन्द्रः, कालिन्दी ह्रदमध्यतः ।।२११।। अथ जामिं सुमित्रस्य, गृहीत्वागात् ससैनिकः । , तत्र तस्यार्पयामास, स्वयमेव तदैव च ।।२१२।। जातालोकः क्षणैकेना-नङ्गसिंहः पुरोद्विषम् । हस्ते च खङ्गरत्नं तद-नालोक्य विषेदिवान् ।।२१३।। स्मृत्वा च खड्गहद्भावी, जामातेति च हृष्टवान् । ज्ञास्यते पुष्पवृष्टेश्चे-त्यामृश्य स्वपुरेऽगतम् ।।२१४ ।। सुमित्रोऽथ भवोद्विग्नः, स्वराज्ये न्यस्य नन्दनम् । व्रत्यभूत् सुयशःपार्श्वे, चित्रगत्यनुमोदितः ।।२१५ ।। अथ चित्रगतिः स्वेऽगा-नगरे जनकान्तिके । अस्थाद्धर्मविशुद्धात्मा, गृहस्थोऽपि सुदर्शनः ।।२१६।। सुमित्रः किञ्चिदूनानि, नवपूर्वाण्यधीतवान् । अथैको गुरुमापृछ्य, विहरन्मगधेष्वगात् ।।२१७ ।। * ब्रूते १ ।। १. चित्रगतिः ९ टि०, सुरस्यापत्यम् १० टि० ।। २. वैरिनेत्रदुखदं अन्धकारकारि ९ टि० ।। . ०थौ० ८.१० ।। 0 ०० ६-१० ।। नता ६-१०, अयं मूलपाठ १० टिप्पण्यामपि ।। ३ स० ६-१० ।। ३. कालियानाग ।। ४. कृष्णः ९ टि० ।। ५. यमुना ।। ६. भग्नीम् (भगिनीम्)९ टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy