________________
श्रीदशवैकालिकसूत्रम् “तत्र क्वापि पुरोधाने, कायोत्सर्गेण तस्थिवान् । तथा स्थितं च तं साधु-मेकमेकाग्रमानसम् ।।२१८ ।। लुलत्पादं वटमिव, लम्बमानभुजद्वयम् । स्थूललेपं कुड्यमिव, मलदिग्धकलेवरम् ।।२१९ । । ऊर्ध्वलोकमिवात्यन्त-मलिनाम्बरधारिणम् । चित्रस्थमिव निष्कम्प-तनुरोमविलोचनम् ।।२२०।। क्षरत्प्रस्वेदवेणीभिः, सनिर्झरमिवाचलम् । जयिनो जैनधर्मस्य, कीर्तिस्तम्भमिवोन्नतम् ।।२२१।। तपःकृशतमं शुष्क-मांसशोणितमेदसम् । अजिनास्थिमयं जीव-शकुन्तस्येव पञ्जरम् ।।२२२।। भ्राम्यस्तत्र तदायातः, पद्मः प्रेक्ष्य विमातृजः । पापीयान् बाणमाकृष्य, निष्पत्राकृत्य दुर्मतिः ।।२२३।। स्वयं नष्टः स दुष्टात्मा, दष्टः कृष्णाहिना निशि । ऋषिहत्यामहापापात्, सप्तमं नरकं गतः ।।२२४ ।। सप्तभिः कुलकम् मुनिर्बाणवणार्तोऽपि, विधायाराधनां स्वयम् । विशुद्धात्माऽभवद् ब्रह्म-लोके शक्रसमः सुरः ।।२२५ ।।
ज्ञात्वा विद्याधरेभ्यस्तन्, मृत्युं चित्रगतिः शुचा । बाधितः कस्य वा न स्यात्, कष्टमिष्टवियोगतः ।।२२६।। अपनेतुं शुचं चित्रगतिः सूरश्च तत्पिता । रत्नवत्या समं पुत्र्या-नङ्गसिंहः परेऽपि च ।।२२७ ।। सिद्धायतनयात्रायां, खेचरेन्द्रस्तदाऽमिलत् । कृत्वा चित्रगतिस्तत्र, जिनार्चामस्ति संस्तुवन् ।।२२८ ।।
समाकर्ण्य सकर्णस्त्वां, स्तूयमानं जिनेशितुः ।
ममापि जिह्वा जिम्हापि, स्तोतुं कण्डूयतेतमाम् ।।२२९।। १. जलप्रवाहै: १० टि० ।। २. चर्म ।। . ०म्यन्नत्र २ ।। ३. पत्रः शरः, तस्यापरपार्श्वे निष्कासकासनं सपत्रं, ताभ्यामत्यन्तव्यथोत्पाद्य १० टि० ।। स २-४ ।। - स्व० १० ।। of० २.५-१० ।। । शतः ५, ०शितः १.३.४.७.१० टिप्पण्याम् , शिता १० ।। + स० ८ ।। . कुण्ठा० ७-९, कुन्ता०६ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org