SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ५२ श्रीतिलकाचार्यविरचितटीकायुतम् सर्वज्ञ एव सर्वज्ञ !, परं विज्ञस्तव स्तवे । किं मादृशा मुग्धदृशा, ज्ञास्यते तोष्यतेऽथवा ।। २३० ।। केवलं कान्तया भक्त्या, प्रेरितः प्रावृतं स्तवे । अशक्यमपि किं कर्म, स्त्रीगिरारभते न नी ।। २३१ ।। तन्मे भक्तिमतः स्वामिन्, वाचः काचसमा अपि । मान्या नीलमणित्वेन, भक्तिग्राह्या हि देवता ।। २३२ ।। देव ! त्वमेव धीरश्च, महावीरश्च नापरः । 1 वक्षस्तवैव यन्नैव विव्यथे मन्मथेषुभिः ।।२३३ ।। स्वामिन्नमर्षशून्यस्त्वं, दृढामर्षस्त्वसौ कुधीः । क्रोधः क्रोधमतः कृत्वा, तस्थिवान्न तवान्तिके ।।२३४।। असम्मानः प्रभो! मान-स्त्वत्तोऽगादभिमानवान् । न पत्तिरपि पत्तिः स्यात्, प्रतिपत्तिविनाकृतः ।। २३५ ।। विभो। जगदेवष्टम्भ-दम्भं संरम्भवानपि । अभूत् त्वयि निरारम्भः, कुम्भी स्तम्भ इवायसे ।।२३६ ।। अनन्यसममैश्वर्यं, भजन्तमपि निर्मम् । लोभः क्षोभमगाद् वीक्ष्य, भवन्तमपुनर्भवम् ।।२३७ ।। विश्वद्रोहः सोऽपि मोहः कोऽहमित्यूहयन् विभो ! । जगाम क्वाप्यसेत्काम-भवतो भवतो ।।२३८ ।। , प्रभो! प्रकामं कामाद्याः, शठास्त्वां प्रत्यकर्मठाः । विज्ञाय मां भवद्भक्तं, हठात् घ्नन्ति करोमि किम् ? ।।२३९।। तदीशपदलीनस्य, दीनस्य वरिवस्यतः । शरण्यः पुण्यकारुण्य-भवाभव! ममामम! ।।२४० ।। आगात् सुमित्रदेवोऽपि, ज्ञात्वा तत्रावधेस्तदा । पुष्पवृष्टिं चित्रगते - मूवं स्तुवतो व्यधात् ।।२४१ ।। * ज्ञः ६-१० ।। ७ प्राकृतं स्तुवे ६.८.९, प्राकृत स्तवे ७ ।। १. नरः ।। ० ० न्तमर्थ० ८ ।। टि० ।। ३. वेगे आक्रोशे वा १० टि० ।। ४. आयसे स्तम्भे कुम्भी यथा निरारम्भा तथा ।। ०स्त्व० ८.१० ।। है ०लम् ५.६. ।। ५. असत्कामश्चासौ भवान् असत्कामभवान् तस्मात् ।। ६. भवसमुद्रे १० टि० ।। ७. पुण्यकारुण्योत्पन्नासंसार ! ।। Jain Education International २. रोधकः १० For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy