SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीदशवकालिकसूत्रम् ४५ सुतां सा समयेऽसूत, कल्पवल्लीव मञ्जरीम् । प्रत्यहं वर्द्धते स्माथ, व्याजदत्तविभूतिवत् ।।१४९ ।। रनान्यस्या भविष्यन्ति, अत्रामुत्र फलानि यत् । पित्रा रत्नवतीव्याख्यां, निर्ममे निर्मलेऽहि तत् ।।१५० ।। प्राप्तकाले च गृह्णाना, स्वोचिताः सकलाः कला । मत्तस्मरकरिक्रीडा-वनं यौवनमासदत् ।।१५१।। दुहितुर्मे वरः कः स्याद् ?, इति राज्ञा निमित्तवित् । पृष्टो ज्ञानदृशा दृष्ट्वा, व्याचष्ट स्पष्टया गिरा ।।१५२।। आच्छेत्स्यति कराद्यस्ते, तरवारिमवारितः । सिद्धायत्तनचैत्यानि, वन्दमानस्य यस्य च ।।१५३।। पुष्पवृष्टिं करिष्यन्ति, सुरास्तद्भावभाविताः । स ते दुहितरं राजन्!, परिणेष्यति निश्चितम् ।।१५४ ।। युग्मम् राजोचे.यो मदीया-ऽसेराच्छेत्ता स सुतावरः । भावी चेत्तन्मम प्रीति-वीरः स खलु राजसूः ।।१५५।। इतश्चात्रैव भरत-क्षेत्रे चक्रपुरं पुरम् । भूरिश्रीरपि नक्षीवः, सुग्रीवस्तत्र भूपतिः ।।१५६।। यशस्वती प्रिया तस्य, तनुजस्तत्तनूद्भवः । सुमित्रो जगतां मित्रं, प्रपन्नार्हतशासनः ।।१५७।। द्वैतीयीकी पुनः पत्नी, भद्राऽभद्रेव देहिनी । तस्यास्तनूरुहः पद्मः, सद्म सर्वागुणावलेः ।।१५८।। अन्यदाचिन्तयद् भद्रा, सुमित्रे सति मे सुतः । स्यान राजेति दत्ते स्म, सुमित्रायोत्कटं विषम् ।।१५९।। * तस्या सौभाग्यवल्यालवालाया पृथिवीभुजा १.३ ।। ततो १.३ ।। 0 हनि १.३.१० ।। १. वरयिता ६ टि० ।। २. झूटवी लेशे इति भाषा० ।। * तिवी० ५.७-१०, तिं वी० ६ ।। १ ते ६-१० ।। ३. अमत्तः १.२.९.१० टि० ।। + प० ६-९ ।। . ० ५.८-१० ।। समिते सुते ८ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy