________________
४४
श्रीतिलकाचार्यविरचितटीकायुतम् राज्ञी विद्युन्मतिस्तस्य, विद्युल्लेखेव रोचिषा । परं न चपला नैव, जडसङ्गविधायिनी ।।१३७ ।। अन्येधुरुदरे तस्या, धनजीवश्च्युतो दिवः । अवतीर्ण इवाम्भोजे, भ्रमरश्चम्पकद्रुमात् ।।१३८।। दिनेषु परिपूर्णेषु, राज्ञी विद्युन्मती सुतम् । जनयामास पुण्येऽह्नि, शुक्तिमौक्तिकरत्नवत् ।।१३९ ।। जन्मोत्सवं विनिर्माय, दानसम्मानसुन्दरम् । तस्य भूमीपतिश्चित्रगतिरित्यभिधां व्यधात् ।।१४०।। प्रतीक्षमाणास्तजन्म, किल सर्वेऽद्भुता गुणाः ।। शैशवादपि तं भैंजुः, स्पर्द्धया स्थानरोधिनः ।।१४१।। कलाग्रहणुकाले च, गृहीत्वाप्यखिलाः कलाः । इच्छन् दैवीं कलां मर्त्य-कलाभिर्न तुतोष सः ।।१४२।। व्योमस्थस्यापि सोमस्या-ददे सोमकलां ततः । .. अद्यापि स भ्रमत्यन्तः-कलुषो लाञ्छनछलात् ।।१४३।। अथासौ यौवनं प्राप, कुमारो मारदुर्धरः । शृङ्गारवीररसयो-लीलाललितकाननम् ।।१४४ ।।
इतश्च दक्षिणश्रेण्यां, नगरं शिवमन्दिरम् । अच्युतश्रीसमायोगः, परं यत्र गृहे गृहे ।।१४५।। अनङ्गसिंहस्तत्रासीद्, धरित्रीघवपुङ्गवः । वैरिकुञ्जरनिर्घाती, चित्रं भीरुः कुरङ्गतः ।।१४६।। । देवी शशिप्रभा तस्य, देहिनीव शशिप्रभा । हरन्ती जन्तुसन्तापं, विस्तारयति कौमुदम् ।।१४७ ।। तत्कुक्षौ धनवत्यात्मा, च्युत्वा सौधर्मकल्पतः ।
तटभूमाविवोत्तीर्ण-स्तीर्णस्वर्गायुरर्णवः ।।१४८।। १. राज्या ६ टि० ।। २. पद्मे ६ टि० ।। ३. अकार्षीत् ९ टि० ।। ४. सेवयामासुः ९ टि० ।। * देवी० ८ ।। ५. शृङ्गारश्च विररसश्च शृङ्गारवीररसौ, तयोः शृङ्गारवीररसयोः ९ टि० ।। ६. लीला-क्रीडासुन्दरवनम् ९ टि० ।। ७. कुरङ्गतः= पृथिव्याम् ६ टि०, पक्षे-इषत् ताम्र १० टि०, सिंहपक्षे-कुः = पृथ्वी तस्या रङ्गः तस्मात्, राजापक्षेकु-कुत्सिताः, रङ्गाः-सभासदः मित्राणि-तेभ्यः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org