________________
श्रीदशवैकालिकसूत्रम् तावथापृच्छ्य साधुः स, गत्वा गच्छेऽमिलनिजे । गृहिधर्मं पुनस्तौ चा-पालयेतां समाहितौ ।।१२६ ।। अथान्तसमये पित्रा, निजे राज्ये न्यवेश्यत ।। कुर्वन् राज्यं ततः स्वाज्ञां, राज्ञां मौलिपदे न्यधात् ।।१२७ ।।
अन्यदा समवासार्षीद, गुरुस्तत्र वसुन्धरः । श्रुत्वा तद्देशनां राजा, सराज्ञीकैः प्रबुद्धवान् ।।१२८ ।। राज्ये धनवतीसूनुं, जयन्तं न्यस्य तत्क्षणात् । सप्रियोऽपि व्रतीभूय, तपस्तप्त्वाऽतिदुःस्तपम् ।।१२९ ।। श्रुतपीयूषमापीय, प्राप्ताचार्यपदश्चिरम् । प्रबोध्य जनतामन्ते, सप्रियोऽनशनं व्यधात् ।।१३० ।। मासान्ते द्वावपि प्रीतौ, विशिष्टाराधनापरौ । पाथेयवत्समादाय, परमेष्ठिनमस्कृतिम् ।।१३१।। तौ गन्तुकामौ किल मोक्षपत्तने, पूर्वं ततस्तत्पदवीं विलोकितुम् । अग्रेसरीकृत्य शुभानुमोदनम्, सौधर्मकल्पे स्वयमेव जग्मतुः ।। १३२।।
इन्द्रवंशा धनदेवो धनदत्तो, व्रतीभूतौ धनानुजौ । अन्येऽप्यखण्डचारित्रा, आद्यकल्पेऽभवन् सुराः ।।१३३।।
॥ इति प्रभोः प्रथमद्वितीयो भवौ।। इहैव भरतक्षेत्रे, वैताढ्यो रूप्यपर्वतः । यः शुभ्रवस्तुनिर्माणे,धातुः शुभ्राणुकोशवत् ।।१३४ ।। सूरतेजःपुरं तत्रो-त्तरश्रेणीशिरोमणिः । गुणसङ्ग्रहर्सम्बद्धं, सुवृत्तं त्रासवर्जितम् ।।१३५ ।। सूरस्तत्र नराधीशः, सूरवद् दिव्यमण्डलः ।
सदानभोगस्तेजस्वी, निहन्ता परतेजसाम् ।।१३६ ।। • च ६.९.१० ।। १. समाधियुक्तौ ९ टी.।। २. मस्तकं मुकुटवत् १.३ टि० ।। • य: ८ ।। 0 तौ विपद्योदपद्यताम् । इन्द्रसामानिको देवौ सौधर्मे सुहृदौ मिथः ।। २.५-१० ।। * रि० १ ।। ३. मार्गम् इति १० टि० ।। २ न्यदाख० ८ ।। + ०तु० १.४.८-१० ।। ४. परमाणु इति ६ टि० ।। . "णिम् २ ।। सम्बन्धम् २, सम्बन्धम् ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org