________________
श्रीदशवैकालिकसूत्रम् • सार्द्ध क्रीडन् कुमारोऽथ, कोन्तया कान्तया स्वया । संसारसुखसर्वस्व-मुपमातिगमन्वभूत् ।।१०६ ।। अन्यदाऽर्वोतरद्भीष्मस्तत्र ग्रीष्मः क्षमातले । सन्तापयन् जगजन्तून्, दावानल इव ज्वलन् ।।१०७।। तापातलोकस्य करेषु ताल-वृन्ताश्चलन्तः परितो विभान्ति । निदाघराजस्य किल क्षमायां, प्राप्तस्य धर्मद्विपसैन्यकर्णाः ।।१०८ ।। उपजातिः उद्दण्डमार्तण्डकराः प्रवेष्टुं, ने पारयन्ते किल यत्र यत्र । . प्रक्षिप्य कामिषतोऽग्नितैलं, दहन्ति जन्तूनपि तत्र तत्र ।।१०९।। उपजातिः क्षणाः क्षामतां प्रापु-ग्रीष्मे तापभरातितः । शीतमप्राप्नुवन्त्योऽत्र, भेषजं पुष्टिकारकम् ।।११०।। वर्द्धमाने प्रतापेन, दिनेशे ग्रीष्मसन्निधेः दिना अपि ययुर्वृद्धिं, भृत्याः स्वाम्यनुगाः खलु ।।१११।। निदाघकालोद्भवधर्मभीत्या, त्यक्त्वाम्बरं तारकचक्रवालम् । प्रफुल्लमल्लीप्रसवापेदेशा-दाराममध्ये किल रंरमीति ।।११२ ।। उपजातिः जलकेलीकृतेऽचालीत्, कुमारः सप्रियस्तदा । अन्तः क्रीडातडागस्य, सकरेणुः करीन्द्रवत् ।।११३।।
तदा च तीपाकूपारे, मग्नः कश्चित्तपोधनः । उष्णांशुकरकल्लोलैः, प्रेर्यमाणः स्खलन् स्खलन् ।।११४ ।।
१. प्रियया ।। २. भार्यया ।। * ०व० १.९ ।। . ग्रीष्ममासः ५-१० ।। - द० ५-९ ।। ३. न शक्नुवन्ति ९ टि० ।। ४. लू इति भाषायाम् ।। - दुनोति ६-१०।। ५. पीडयन्ति ९ टि० ।। है ९ प्रतौ टिप्पण्यामेतौ द्वौ श्लोको-सर्धा सारुधिदग्धवीरुधिसदा, सारङ्गबद्धक्रुधि, क्षामक्ष्मारुहि मन्दमुन्मधुलिहि, स्वच्छन्दकन्दगुहि । शुष्यन् श्रोतसि तप्तभूरिरजसि, ज्वालायमानाम्भसि, ग्रीष्मे भासिततार्कतेजसि कथं, पान्थ! व्रजन् जीवसि ? ।। १ विधत्ते यत्तोषे जडपरिचितौ गोष्पतिकराः, कठोरा जायन्ते, कथमपि न तृष्णा विरमति । मुदे दोषारम्भो भवति भुवि वैरस्त्यघटना, तदैष गीष्मर्तुः किमनु कलिकालं कलयति ।। २ ।। ६. रात्र्यः ।। + ०दा १.८ ।। . क्षणतां ६.८-१० ।। ३ ०नु० ५ ।। ७. तारामण्डलम् १० टि० ।। ८. मल्लिकामञ्जरीमिषात् ९ टि०, मोगरो इति भाषायाम् ।। ९. उत्पत्त्यऽपदेशात् १० टि० ।। १०. सहस्तिनीक: ९ टि०, हस्ति ६ टि० ।। ११. तापसमुद्रे ९ टि० ।। * प्रतिस्खलन् १.३.४ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org