SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ४० श्रीतिलकाचार्यविरचितटीकायुतम् विवाहस्तत्र सोत्साहः, पुण्येऽहनि सुपुण्ययोः । सवयो रूपयोरासी-दुषाऽनिरुद्धयोरिव ।। ९४ ।। विमान इव सौधे स्वे, धनवत्या समं धनः । चिरं चिक्रीड सव्रीडः, पौलोम्येव पुरन्दरः ।।९५।। अन्यदा वाहयन्वाहं, बाह्यालीं गतवान् धनः । वसुन्धरं गणधरं दिशन्तं धर्ममैक्षत । ९६ ।। , | मुक्त्वा तुरङ्गमुत्तुङ्गं, धर्मरङ्गं दधद्धनः । व्याख्यासुधारसं पातुं, प्रणम्योपविशत् पुरः ।।९७।। आगत्य विक्रमधनो, धारिणी धनवत्यपि पौरा अपि गुरुं नत्वा, सर्वे धर्ममशुश्रुवन् ।।९८।। व्याख्यान्ते गुरुमप्राक्षीत् क्ष्मापतिर्विहितानतिः । राज्ञी रसालमद्राक्षीद्, धने गर्भगते सति ।।९९ ।। नववारारोपणं च, तस्योक्तं स्थानभेदतः । न विज्ञातं फलं तस्य, तत्प्रसद्य निवेद्यताम् । ।१०० ।। चतुर्ज्ञानी गुरुर्ज्ञात्वाऽ- वधेः केवलिनं मुनिम् । दूरस्थमपि तत्रस्थो-ऽप्यपृच्छन्मनसाऽनघः ।।१०१।। केवली केवलज्ञानात्, प्रश्नं विज्ञाय मानसम् । चरित्रं मनसैवाख्यन्, नेमेर्नवभवात्मकम् ।। १०२ ।। स मुनिः पुनरज्ञासीन्मनोऽवधिविदोर्बलात् । अथाचख्यौ क्षमाभेर्तु-र्भवान्नव सहाऽमुना ।।१०३ ।। भूत्वोत्तमोत्तमस्थाने, धनस्तव तनूद्भवः । श्रीनेमिर्नवमे भावी, भवे द्वाविंशतीर्थकृत् । ।१०४ ।। तदाकर्ण्य प्रमुदिता, गतास्सर्वे यथातथम् । गुरवोऽपि व्यहार्षुस्ते, साधूनां स्थितिरीदृशी । । १०५ । । १. उषा बाणासुरपुत्री ९ टि०, बाणराजसुताकन्दर्पात्मजयोरिव १० टि० ।। ०द्वा० ६.९ ।। २. अश्वम् ।। ७ ०तः १.१० ।। ० ० ८ ।। ०५० ८.१० ।। है ०थ २-४ ।। ३. कृताञ्जलिपुट ९ टि० ।। + ०रुं ज्ञा० २.५ ।। ४. मनःपर्यवावधिज्ञानयोः ।। ५. पुरस्तात् ९ टि० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy