________________
३८. श्रीतिलकाचार्यविरचितटीकायुतम्
निवेद्य राजकार्याण्या-सीनं सिंहनृपोऽवदत् । दृष्टं किमपि किं तत्र, कौतुकं दूत! सोऽभ्यधात् ।।७।। दृष्टस्तत्र मयाश्चर्य-रूपो विक्रमसूर्धन । न तद्रूपसमोऽन्यो य-नरासुरसुरेष्वपि ।।७१।। तदैवाचिन्ति योग्योऽयं, धनवत्याः पतिर्धनः । . विचिन्त्येवानयोोग, धात्रा तुल्यौ कृताविमौ ।।७२।। . . राजीचे मेऽभवत् पुत्री, वरचिन्ताज्वरो महान् । सोऽधुना मान्त्रिकेणेव, साधु साधु त्वया हृतः ।।७३।। तदैव तमथादिक्षत्, दातुं धनवतीं नृपः । श्रीविक्रमधनस्यात्म-भुवोऽचलपुरं प्रति ।।७४।। र्धनवत्यनुजाता तं, तदाभूनन्तुमागता । . श्रुत्वा चन्द्रवती सर्वं, तद्भगिन्यै न्यवेदयत् ।।७५।। तदुक्तं सा परं तन्न, मेने किं वेत्त्यसौ शिशुः ? ।' प्रैषि राज्ञी स्वकार्येण, जज्ञेऽसौ मे स्वसुः कृते ।।६।। ततः सख्या समाहूतः, स दूतस्तदचीकथत् ।। श्रुत्वा धनवती तञ्च, सुधातोऽप्यधिकं वचः ।।७७ ।। अवाप परमं सौख्यं, योगीव स्वात्मदर्शनात् । किं च सा तं तदानन्दं, धनसङ्गमिवाऽन्वभूत् ।।७८ ।। युग्मम्
अथ दूतोऽचलपुरं, गत्वा राजानमानमत् । राजोचे तं द्रुतायातं, कुशलं स्वामिनस्तव ।।७९।। कुशल देव! किन्त्वस्मि, प्रेषितः सिंहभूभुजा । सम्प्रदातुं धनवती, धनाय तव सूनवे ।।८।। यैरेव दलिकैर्देव!, धनो धात्रा विनिर्मितः । उद्धृतैश्च ततः शेषै-र्धनवत्यपि निर्मिता ।।८१।।
* चारु० ५-१० ।। , जो० ८ ।। ० ०3० ४.६.८-१० ।। १. धनवत्याः भगिनी ९ टि० ।। २. धनवत्याः भगिनी चन्द्रवती ९ ।। वत्ये० २.६.९ ।। हैजा ८.९ ।।+ ञ्च २ ।।.०ले १ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org