________________
श्रीदशवैकालिकसूत्रम् ___३७ इन्दुर्निर्मलतां प्रतापमरुणो, गाम्भीर्यमम्भोनिधिस्तुङ्गत्वं कनकाचलो हिमगिरिः, शैत्यं स्वतेजोऽनलः । ऐश्वर्यं धनदः शमं च ऋषयः, सर्वं सहत्वं धरा, सर्वे माङ्गलिकं व्यधुनिजनिजं, यस्मै युवत्वागमे ।।५८ ।। शार्दूलविक्रीडितम् न ते वर्णा न वा तेऽर्थाः, न शब्दा वा कविर्न सः । त्रिजगन्नयनानन्दी, वर्ण्यते यैरयं धनः ।।५९।। जानाम्यचुम्बितैरेव, सृष्टोऽयं परमाणुभिः । ईदृशं येन कस्यापि, न रूपं न पराक्रमः ।।६० ।। यूनां च युवतीनां च, स्मरः स्फुरति चेतसि । बालवृद्धयुवस्वान्ते, स्फुरनेष ततोऽधिकः ।।६१।। वपुरप्रतिमं यस्य, लावण्यामृतसागरम् । दृशो द्रोण्य इव स्त्रीणां, गाहन्ते सर्वतोऽपि हि ।।६२।। तदुल्लपितमाकर्ण्य, कर्णसौख्यावहं वचः । तदैव तद्गतस्वान्ता, शून्याथ धनवत्यभूत् ।।६३।। पट्टिकामर्पयित्वा तां, तस्यैवाथ प्रिया सखी । गन्तुमात्मीयमावासं, राजपुत्रीमचीचलत् ।।६४ ।।
स्मरग्रहपराधीना, स्खलदंह्निः पदे पदे । निन्ये सखीभिः कथमप्यावासे धनवत्यथ ।।६५ ।। गता तत्रापि नो वक्ति, न भुङ्क्ते न स्वपित्यपि । धनो धन इति ध्याय-त्येकाग्राभीष्टमन्त्रवत् ।।६६।। तद्व्यथार्ता सखी तस्याः, पृष्टा कमपि तामवक् । चिन्तितस्ते पतिर्भावी, तत्त्वं मैवाधृतिं कृथाः ।।६७ ।। तद्वाचा स्वस्थतामीषत्, प्राप्य गत्वानमन्नृपम् । दध्यौ राजापि तां वीक्ष्य, वराहेयं सुताधुना ।।८।। तां विसृज्य वरः कोऽस्या, भावीति ध्यायतस्तदा ।
आगात् प्राक् प्रेषितो दूतः, श्रीविक्रमनृपान्तिकात् ।।६९।। • मि० २ ।। - ते चार्था ६.८-१० ।। १. नदी १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org