________________
३६. श्रीतिलकाचार्यविरचितटीकायुतम्
कृषीवलानां कणराशिदम्भात्, प्रभूतवर्णान् किल रत्नराशीन् । दुःकालनिर्नाशकृतां नियुद्धे, तुष्टः शरद्भूभृददात् खलान्तः ।।४७।। उपजातिः हर्षप्रकर्षेण सहस्रनेत्रः, समन्ततः खञ्जनराजिदम्भात् । शरन्नृपोऽभूत् किल वीक्षितुं क्ष्मां, प्रेम्णा धृतस्मेरसरोजवक्राम् ।।४८ ।। उपजातिः पद्मातपत्राणि विकस्वराणि, ददौ शरद्भूपतिरागतः सन् । समस्तजन्तूद्धरणोद्यतानां, शुभाशयानां पयसां सरस्सु ।।४९।। उपजातिः वर्षासु मत्तः किल कर्दमो जनं, धृत्वा पदे पातयति स्म यः क्षितौ । उग्रः शरञ्चण्डकरः स्वरश्मिभिः,संयम्य तं राजिमिषाद् व्यदारयत् ।।५० ।। उपजातिः शरदालङ्कृतं द्रष्टु-मुद्यानं धनवत्यगात् । . नभःश्रीरिव ताराभिः, सखीभिः परिवारिता ।।५।। तथाविधां च तां तत्र, प्रफुल्लाक्षी वनश्रियम् । दर्श दर्श चलन्त्यागात्, कङ्केल्लिद्रोश्चिरादधः ।।५२।। .
तत्र चित्रकृतः पाणा-वीक्षित्वा चित्रपट्टिकाम् । धनवत्याः सखी तस्माद्, गृहीत्वा तामदर्शयत् ।।५३।। सॉपि तत्रैक्ष्य पुंरूप-मसरूपं विसिष्मिये । तत्स्वरूपमथाप्राक्षीत्, तत् प्रेक्षोत्सुकवीक्षणा ।।५४।। कामः किमेष लिखितो भवतात्र चित्रे, किं वा पुरन्दर इह त्रिदशाधिराजः । . तत्कस्य रूपमिदमीदृशमुच्यतां भो, सम्भावयामि न नरः क्वचिदप्यमूदृक् ।।५५।। वसन्ततिलका स उवाचाऽचलपुरे, श्रीविक्रमधनाङ्गभूः । धननामास्ति तद्रूपं, कौतुकाल्लिखितं मया ।।५६।। परं तस्य शतांशोऽपि, लिखितो नागमन्मम ।
यथास्थमस्य रूपं तु, विधातैव लिखेद्यदि ।।५७ ।। १. खलधानमध्ये ।। * व० ६.९।। . ०भद्रप्रकरापदेशात् २.५-७.९, ०भद्रः प्रकरोपदेशात् १०, अयं मूलपाठः १० टिप्पण्यामपि ।। २. खञ्जरीट २ टि० ।। 0 क्षरा ५ ।। * ०म्ला ५-८.१० ।। है ताभिस्सा ६ ।। ३. अशोकः १० टि० ।। + ०४० ८ ।। . ०त्या २.८ ।। २ साप्यत्र वीक्ष्य ५.६.८-१०, साप्यत्र वीक्षि ७ ।। * नु०८ ।। ४. नेत्र इति १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org