________________
श्रीदशवैकालिकसूत्रम्
वर्द्धते स्माथ सूनूः स, मासप्रमितचन्द्रवत् । कलाध्ययनयोग्यश्च, कलाचार्येण पाठितः ।। ३५ ।। कलाब्धेः पारदृश्वाभूत्, कलाचार्य इव स्वयम् । गुरुर्बुधः केविश्चापि, किलास्युस्तद्भयाद्दिवि ।। ३६ ।। वर्द्धमानः क्रमेणाथ, प्रापदुन्मुक्तशैशवः । दत्तस्त्रैणमनोरङ्गं, वयोभङ्गं संभङ्गुरम् ।।३७।। सवयोभिः कुमारैः स, रममाणोऽथ लीलया । दत्ते स्म नयनानन्दं पित्रोः पुँरजनस्य च ।। ३८ ।। इतश्च कुसुमपुरे, सिंहः सिंहपराक्रमः । विहितानेकपापाङ्ग-भङ्गरङ्गः क्षितीश्वरः ।।३९।। शरन्निशाकरज्योत्स्ना-विमला विमला प्रिया । यां समालोक्य जिह्रेति, स्त्रीरत्नमपि चक्रिणः ।।४०।। राजप्रसादवित्ताया-स्तस्या वश्यात्मनोऽन्यदा ।
अनेकेभ्यः सुतेभ्योऽनु-जज्ञे धनवती सुता ।। ४१ ।। "यदीयरूपातिशयत्, त्रैलोक्येऽऽद्वितीयतः । लाघवं स्वस्य मन्वाना, नायान्त्यप्सरसो भुवि ।।४२।। रूपे यस्याः सुधाकूपे, दृष्टे सति सचेतसाम् । रतिरप्यस्तेः स्थानं, श्रीरप्यश्रीरिवाभवत् ।।४३।। कलाकाले च जग्राह, चतुषष्टिमिताः कलाः । उद्दामं यौवनं प्राप, विलासद्द्रुमकाननम् ।।४४।। प्रावृषं परतः कृत्वा, नँदा चेक्षुकरैः शरत् । आरामे समवातारीत्, पुरलक्ष्मीमिवेक्षितुम् ।।४५।। ममर्द यत्प्रौक् चरणाभिघातैः, पङ्कं विशङ्कः प्रमदाजनोऽपि ।
तत्तात! वैरादिव पङ्कजानि, मुखोपमानं जगृहुस्तदीयम् ।।४६।। उपजातिः
१. शुक्रः १० टि० ।। ०गु० ५-१० ।। २. कुटिलम् १० टि० ।। ५ प० १ ।। ० निष्टा० ५-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। यस्यारू० ५.६.९, यस्य रू० ७.८.१० ।। व्यतस् ५-१० ।। + ०था० ७.९, ०थ ५.८ ।। ०कलाः ५-१० ।। Û ०भिनवेन्दुकरैः ५-१० ।। * ० सार्षीत् ५-१० ।। ३. प्रावृषि इति १० टि० ।।
Jain Education International
३५
For Personal & Private Use Only
www.jainelibrary.org