________________
३४ . . श्रीतिलकाचार्यविरचितटीकायुतम्
ततः प्रमुदिता देवी, गर्भ धारयति स्म सा । मुक्ताफलं शुक्तिरिव, रत्नं राँहणभूरिव ।।२३।। बालं द्रष्टुमिवोच्चस्थे, ग्रहचक्रे शुभेऽहनि । समयेऽसूत सा देवी, पुत्रं नेत्राब्जभास्करम् ।।२४ ।। दासी प्रियंवदा पुत्र-जन्मनानन्दयन्नृपम् । अदात्सुवर्णजिह्वां राट्, तस्याः, सुवर्णवागिति ।।२५।।. अङ्गं नः सुखयामास, प्रियवाक्सुधया च तत् । अङ्गलग्नानि वासांसि, ददावाभरणानि च ।।२६।। पुत्रजन्मोत्सवो राज्ञा, तदानीं कारितोऽद्भुतः । पुरेऽपि लोभित इव, सोऽभूद् वेश्मनि वेश्मनि ।।२७।। वैजयन्त्यः पुरे तत्र, जयन्त्यो नगराण्यपि । . उच्छीयन्ते स्म सर्वत्र, पञ्चवर्णमनोहराः ।।२८।। दीयते भूभुजा दानं, तदा तोषितमार्गणम् । . पुरं त्वक्रियताशेषं, विनिवारितमार्गणम् ।।२९।। गुप्तयो मोचिताः सर्वाः, बद्धा वन्दनमालिकाः । क्ष्मापि पिञ्जरिता विष्वक्, कुकर्मच्छटकच्छलात् ।।३० ।। हट्टशोभामिषाद् द्यौश्च, तदानीं परिधापिता । सुतेन सह जातोऽपि, हर्षस्तत्कालचार्यभूत् ।।३१।। प्रदत्तेऽपि महादाने, तदा कोशः क्षितीशितुः । प्राकृतैः सुकृतैः सूनो-रुद्भूय सशिखोऽभवत् ।।३२ ।। हस्त्यश्वस्वर्णमाणिक्या-द्यपि वृद्धिमगाद्धनम् । माङ्गलिक्याय सीमान्त-सामंतैरुपढौकितम् ।।३३।।
द्वादशेऽह्नि ततो राजा, पुनरुत्सवपूर्वकम् ।
कृताशेषजनप्रीति-र्धन इत्यभिधां व्यधात् ।।३४।। * हि० १ ।। * मे ५, च ६.८-१०, सा ७ ।। 0 लि० ५-१० ।। १. चतुवर्णत्वात् ३ टि०, नगरशब्दस्य त्र्यक्षरत्वं वैजयन्तीशब्दस्य चतुराक्षरत्वम् तेन हेतुना अथवा नगरे चतुर्वर्णा लोकाः वैजयन्त्यां च पञ्चप्रकारा वर्णा इति नगराणि जयन्त्यः ।। * त्वा० ८.१० ।। २. रक्तवर्णीकृता ।। है ०मा० ८ ।। - ०द्या० ८ ।।. ०ते० १ ।। 0 ज्ञा १.५.९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org