________________
श्रीदशवैकालिकसूत्रम् दुर्धारवैरिवारेन्दु-ग्रासोद्वाहुराहुणा । कुर्वाणेन रणं येन, सुरैः स्वर्गोऽपि सङ्कटः ।।१२।। सुपर्वपर्वतः पूर्वं, स्वर्णधातुमयोऽखिलः । यत्प्रतापाग्निसन्तप्त-स्तपनीयाचलोऽभवत् ।।१३।। कोऽपि प्रतापातापिवैरी यस्याभवन्नवः । अनैषीत् युगपद्वैरि-वारवारिनिधीन् क्षयम् ।।१४।। धीरोदारचरित्रस्य, यस्य मार्गणधोरणी । विमुखी युध्यमानस्य, ददानस्य च सम्मुखी ।।१५।। तस्यासीद् धारिणी देवी, सविलासविलोचना । नानिमेषकरालाक्ष्यो, भान्ति देव्योऽपि तत्पुरः ।।१६।। युग्मम्
सान्यदा शर्वरीशेषे, सुप्तजाग्रद् दृशा सती । स्वप्ने व्यलोकयद्देवी, विस्मयस्मेरमानसा ।।१७।। उद्यद्विद्रुमरत्नशोणकिशलं, सन्मञ्जरीपिञ्जरम्, स्त्यानीभूतसुधारसोपमफल-प्राग्भारभारानतम् । . उत्कण्ठाघटमानषट्पदघटं, पुंस्कोकिलालीकलालापप्रीणितकर्णसम्पुटमटत्, कीरावलीमालितम् ।।१८।। शार्दूलविकीडितम् महाकायं महाच्छायं, रसालद्रुममीदृशम् । केनापि दिव्यदेहेनारोप्यमाणं गृहाङ्गणे ।।१९।। त्रिभिर्विशेषकम् । तदुक्तं चेति शुश्राव, चूतस्यास्यामुना सह । भाव्युत्तमोत्तमस्थाने, नवकृत्वोऽधिरोपणम् ।।२०।। . तञ्चालोक्य प्रबुद्धासौ, सहसोत्थाय भूभुजे । कथयामास तं स्वप्नं, राजापि फलमादिशत् ।।२१।। . भविष्यति सुतः स्वप्ना-दितो राज्यधरस्तव । .
प्रातः स्वप्नविदोऽप्याख्यन, राजोक्तानाधिकं फलम् ।।२२।। * ०धु० ८ ।। १. भयक्रान्तः कृतः शङ्कया ८-९ टि०।। • मेरुपर्वत ५ ।। २. अगस्ति: २ टि०, अगस्त्यनाशितेऽसुरभेदे १० टि० ।। - तो० ६.८.९ ।। ३. युद्धपक्षे बाणश्रेणिः, दानपक्षे याचकश्रेणिः ।। * मार्गणधोरिणी ५.१० मार्गेणधारिणी ६.८ ।। १ लाक्षो १, ०लक्ष्यो ६.९.१०, ०लाक्ष्या ७ ।। + व्या० ८-१० ।।.०ती० ८ ।। तत् ८ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org