________________
३२
श्रीतिलकाचार्यविरचितटीकायुतम्
॥ श्रीनेमिनाथस्वामिचरित्रम् ॥ द्वीपोऽस्ति जम्बूद्वीपोऽत्र, येनात्मीयर्द्धिगौरवात् । .. निःसपत्नतया मेरु-व्याजादूर्वीकृतो भुजः ।।१।। तत्रास्ति भरतक्षेत्रं, प्राप्तोत्कर्षं तदन्तरे । सीमा॑न्त इव वैताढ्यो, दक्षिणोत्तरभेदकृत् ।।२।। तत्रापि दक्षिणे खण्डे, नाम्नाचलपुरं पुरम् । लक्ष्मीरप्यचला यत्र, नृणां सकृतबन्धना ।।३।। चैत्यशृङ्गेषु मा भाङ्क्षीत्, संश्लिष्य स्यन्दनो मम । इत्योच्यासुंदीच्यां वा, यत्रैत्यर्कोऽपि नोपारि ।।४।। सकिङ्किणीक्वणाश्चैत्य-स्वर्णदण्डेष्वभान् ध्वजाः । यत्र स्वर्गाश्च शिक्षार्थं, ध्वनन्त इव धैर्घराः ।।५।। यत्रोच्चैः कुर्वतः पौरान्, स्वर्गाधःकारिणो गृहान् । दृष्ट्वा सीम्नीव चन्द्रार्का, घाटं न्यासुर्दिवौकसः ।।६।। हर्षोत्कर्षेण पौरश्रीजिताशेषपुरोन्नतेः । यस्य वेप्रापदेशेन, वरमालामिवाक्षिपत् ।।७।। यस्य निःशेषदोषाणा-मन्तःसञ्चारैवारिका । धात्रा मन्त्राम्भसा चक्रे, रेखेव परिखामिषात् ।।८।। यस्मिन्नर्थिजनाभावा-नगरे श्रीनिकेतने । दानंदानाय सञ्जाताः, स्वयमेवार्थिनो जनाः ।।९।।
श्रीविक्रमधनस्तत्र, विक्रमाक्रान्तविष्टपः । बलिबन्धविधानेन, त्रिविक्रम इवापरः ।।१०।। अनन्यसन्निभन्यायात्, साम्राज्यं तस्य कुर्वतः ।
अभूद्भवलयं पाणि-तलवत् सङ्कटं जनैः ।।११।। * ०म० ६.८.९ ।। १. ओलिंगीने ८ टि० ।। २. दक्षिण ८ टि० ।। ३. उत्तर ८ टि० ।। ।त्येको० ५-९ ।। 0 ०ष्या० ६ ।। ४. स्वरभेदाः १० टि० ।। * तां ६-९ ।। ५. प्राकारव्याजात् २ टि० ।। ३०रि० १, रिव० ६ ।। ६. ब्रह्मा [ए] मन्त्रिनै रेखादे [-रेखाने माटे] तुठि खाइ निमिसि करी ५ टि० ।। + ना० १ ।। ७. धनिनः ।। ८. कृष्ण ८ टि० ।। . भं ६-१० ।। ९. सङ्कीर्णम् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org