________________
श्रीदशवैकालिकसूत्रम् बुशोपमानामेतेषां, विषयाणां कृते कृतिन्! । किमुज्झसि सुदुःप्रायं, रत्नत्रयममूल्यकम् ।।११५ ।। तयैवमनुशिष्टोऽपि, स तामूचे भवत्वदः । तथापि नागिलां दृष्ट्वा, याम्यतस्तदनुज्ञया ।।११६ ।। ततस्तयोक्तं भो भद्र!, पश्य सैषास्मि नागिला । जरारात्रिञ्चरीग्रस्त-रूपलावण्ययौवना ।।११७ ।। संसारासारतां विद्धि, पश्यन्मामेव हे मुने ! । कीदृश्यहं तदाभूवं ?, कीदृशी चास्मि सम्प्रति ? ।।११८ ।। लज्जितो भत्रदेवोऽथ, दध्यावध्यात्ममीदृशम् । अहो धन्या ! कृतार्थेयं, विपरीतस्त्वहं हहा ।।११९ ।।
एवं भावयतस्तस्य, महावैराग्यभावनाम् । ब्राह्मण्यास्तनयस्ताव-जननीमेवमब्रवीत् ।।१२०।। मातर्मे वमनं भावि, ततोऽधः कुरु भाजनम् । वृथैतत् पायसं मागा-न्मनोज्ञममृतादपि ।।१२१।। भाजने च पुनर्वान्तं, क्षणमात्राद् बुभुक्षितः । भोक्ष्येऽहं पुनरप्येत-ज्जीवितादपि दुर्लभम् ।।१२२ ।। ब्राह्मण्युवाच हे वत्स!, वान्तमश्नन् जुगुप्स्यसे । वान्ताशिनो हि जायन्ते, कुक्कुरा एव नापराः ।।१२३ ।। तच्छ्रुत्वा भवदेवोऽपि, चिन्तयामासिवानिदम् । योऽसौ विवेको ब्राह्मण्या, बभूव मम सोऽपि न ।।१२४ ।। मयापि वान्ता विषयाः, पुरा तावद्यथा तथा । पुरस्तान् किं समीहेऽहं ?, सत्यसन्धा हि साधवः ।।१२५ ।।
ततः संवेगलहरी-क्षालितामलमानसः । विषयानशुचीन्मत्वा, तत्त्वतः स तदाऽत्यजत् ।।१२६ ।। १. तृच्छ उपमानम् ८ टि० ।। २. त्यजसि २ टि० ।। * स्येतस् ७.८, स्येहं ६.९ ।। * ०वा० ५-१० ।। 0०व० ५-१० ।। * ०त २ ।। २ रे ८, ।। + ०स० ६.८-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org