________________
३०
श्रीतिलकाचार्यविरचितटीकायुतम्
ऊचे च नागिलां भद्रे !, त्वया मार्गेऽवतारितः । हस्ती हस्तिपकेनेव, मन्त्रिणेव नराधिपः । । १२७ ।। इँतस्त्वं गुरुवन्मेऽसि, मिथ्या दुःकृतमस्तु ते । साप्यूचे गुरुपार्श्वे त्वं, गत्वालोच्य व्रतं चरं ।।१२८ ।। अहमप्यधुनादाय, साध्वीनां सन्निधौ व्रतम् । सत्याकरिष्ये यन्नार्यः, पतिवर्त्मानुगा इति । । १२९ ।। भवदेवस्ततो नत्वा, जिनबिम्बानि भक्तितः । गुरूणामन्तिके गत्वा, सर्वमालोच्य दुःकृतम् ।।१३०।। सम्यगासेव्य चारित्रं, पूर्णायुः क्रमयोगतः । सौधर्मदेवलोकेऽभूत्, इन्द्रसामानिकः सुरः ।। १३१ । । युग्मम् । किञ्च
आयावूयाहि, चय सोगमल्लं, कामे कमाहिं कमिअं खु दुक्खं । छिंदाहिं दोसं विणइज्ज रागं, एवं सुही होहिसि संपराए ।। ५ ।।
मनसो बहिरनिर्गमार्थं आतापय- आतपे कायोत्सर्गं कुरु । न्युनोदरतादितपसा वा आतापनां कुरु, त्यजू सौकुमार्यम् । कामान्-शब्दादिविषुयान्। क्राम-उल्लङ्घय । तैः क्रान्तैरुल्लङ्घितैः क्रान्तमेव - निवर्तितमेव विषयाप्राप्तिजनितं दुःखं छिन्द्धि द्वेषंविरूपशब्दादिषु। विनयेथाः रागं प्रियङ्करशब्दादिकामविषये । एवं रागद्वेषादिविजयात् सुखी भविष्यसि । सम्पराये- संसारेऽपि सन् अथवा सम्पराये - परीषहोपसर्गसङ्ग्रामे । एते गुरोः शिष्यं प्रत्युपदेशाः ।
किञ्च मनसः संयमगृहाद्बहिरनिर्गमार्थं पुनरिदं विचिन्तयेत् ।
०ग० ६ ।। त० २ ।। ०रेः २ ।। प्रपद्यानशनं देवः सौधर्मेऽभून्महर्द्धिकः ५-१० ।। ह ७. १२, ही ८-१० ।। ०हि ५ १२ ।। क्रम २, क्रामय ६-१० ।। १. उल्लङ्घितमेव विषयजं दुखम् ८ टि० ।। ०व विषया० ८-१० ।। ०त० १.२.५ ।। २. वैरागं = विरूपम् ८ टि० ।। विनयस्व ५-१० ।। ४ ०ति १.४, ।। च ८, ।। ०ष्यं च प्र० ८-१० ।। इतः अगन्धणे इत्यन्तः
१२ प्रतौ नास्ति ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org