________________
२८
श्रीतिलकाचार्यविरचितटीकायुतम्
सोऽभून्मुकुलितास्योऽथ दिनान्त इव पङ्कजम् ।
पुनः पप्रच्छ तां कँश्चि-न्नागिला सास्ति वा न वा । । १०२ । । साथ दध्यौ ध्रुवं भर्त्ता, भवदेव स एष मे । भग्नव्रतपरिणाम, इवोक्त्या भाति वानया । । १०३ । । अमुमेव परं पृच्छा-म्येष किं किं निवेदयेत् । पश्चात्तदनुमानेन, बोधयामि महाधियम् । ।१०४ ।। इति ध्यात्वा तमूचे सा, किं तया ते तपोधन ! ? । कश्च त्वं किञ्च वा ते सा, भवत्येवं यदादरः । । १०५ ।। सोऽथ साक्षेपमाचख्यौ, प्राणेशा नागिला मम । सूनुरार्जवरेवत्यो-र्भवदत्तानुजोऽस्म्यहम् ।।१०६।। तदार्द्धमण्डितां हित्वा, नागिलां बन्धुमन्वगाम् । उपरोधाच्च तस्यैव, व्रतमप्यहमादिषि ।। १०७ ।। इदानीं च गते स्वर्गं, बान्धवेऽहमबन्धनः ।
पित्रोश्च नागिलायाश्च प्रतिबन्धादिहागमम् ।। १०८ ।।
,
Jain Education International
,
ततः कथय मे तन्वी, पट्वी कुशलिनी च सा । ममागमनवार्तां च, कदाचित् कुरुते न वा ? ।।१०९ ।। सावदन्नागिला भद्र !, ज्ञात्वा त्वामात्तसंयमम् । तदैव साध्वीसंसर्ग-मपवर्गपदं व्यधात् ।।११०।। शुद्धसम्यक्त्वमूलानि व्रतानि द्वादशाग्रहीत् । धर्मशास्त्राण्यधीयाय, तप्यते स्म तपांसि च । । १११ । । यावज्जीवमुपादत्त, ब्रह्मचर्यव्रतं च सा । धर्मानुष्ठानलीना-स्थादियत्कालं गृहेऽपि च ।।११२ ।। द्रव्यस्तवं विधायैवं, भावस्तवचिकीर्षया । सम्प्रत्यादातुकामास्ति, साध्वीनां सन्निधौ व्रतम् । । ११३ । । भ्रातुरप्युपरोधेन, सुचिरं पालितव्रतः ।
तत्किं सन्मार्गदृश्वापि, यासि त्वमपि कापथम् ? ।।११४।।
* ०च्चि० ३.४ ।। ॐ ०री० ३.४ ।। १. अनुरागाद् ।। २. भलोमार्ग देख्यो पिण उजडं याति ८ टि० ।। o वर्ग दृष्ट्वा० २.१०, वर्गं दृष्ट्वा ० ५ ।।
For Personal & Private Use Only
www.jainelibrary.org