________________
२६
श्रीतिलकाचार्यविरचितटीकायुतम्
शिक्षितः सोऽथ निःशेषं, साध्वाचारं नवो मुनिः । भ्रातुरेवोपरोधेन, द्रव्यतः स व्रतं व्यधात् ।। ७८ ।। भावतस्त्वेकचित्तस्तां, प्रयेसीमर्द्धमण्डिताम् । नित्यमेव स्मरनास्ते, सर्वशून्यक्रियाक्रमः ।।७९।।
अथापरेधुर्भवदेवसाधुः, पठन् श्रुतं साधुमुखारविन्दात् । "न सा महं नो वि अहं पि तीसे,” इति श्रुतस्यैकमवाप वाक्यम् ।।८० ।।
उपेन्द्रवज्रा ज्ञात्वा तदर्थं स मुनिः स्वचित्ते, व्यचिन्तयत् तथ्यमिदं न वाक्यम् । यतो “महं सा अहयं पि तीसे," इत्येष एवास्ति विनिश्चयो मे ।।८१।।
उपजातिः उद्घोषयंस्तथा सोऽत्र, समस्तैरपि साधुभिः ।. माकूटं घोषयेत्युक्तो, मन्यते स्म न तगिरः ।।८२।। तथैव शुद्ध मन्वानो, मनःसङ्कल्पतो निजात् । , क्रियासमभिहारेण, तत्तथैवोदघोषयत् ।।८३।। अथान्यदा व्यतिक्रान्ते, सति कालेऽतिभूयसि । विज्ञाय स्वायुषः प्रान्तं, विधायानशनं सुधीः ।।८४ ।। विपद्य भवदत्तर्षिः, प्रकृष्टेन समाधिना । सौधर्मदेवलोकेऽभूद्, देवो दिव्यर्द्धिदुर्धरः ।।८५।।
भवदत्ते गते च द्या, भवदेवो व्यचिन्तयत् । इयत्कालं व्रतीवास्था-महं बन्धूपरोधतः ।।८६।। अधुना किं ममानेन, व्रतेन क्लेशकारिणा ? । पक्षीव बन्धनान्मुक्तः, कथं गच्छामि नाधुना ? ।।८७।। तामर्द्धमण्डितां बालां, शालां कन्दर्पकुम्भिनः । चिरात्सम्भालये गत्वा, प्रातर्भानुरिवाब्जिनीम् ।।८८।।
एकाकिनी वराकी सा, विना मां जीवितेश्वरम् ।
रतिमन्मथमुक्तव, शचीन्द्रविवर्जिता ।।८९।। • सम् ८ ।। * नाम् ८ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org