________________
२५
श्रीदशवैकालिकसूत्रम् तं गुरोः सन्निधौ नेतुं, भवदत्तोऽपि दत्तवान् । प्रत्यालापानिमांस्तस्य, बालस्येव सुखादिकाम् ।।६।। भ्राम्यतां भविनामत्र, पथिकानामिवानिशम् । नापूर्वं विद्यते किञ्चिद्, वत्स! संसारपञ्जरे ।।६७।। समस्तेऽप्यस्ति लोकेऽस्मिन्, स प्रदेशो न कश्चन । न जन्ममरणाभ्यां यः, सत्वैरस्पृश्यताखिलैः ।।६८।। इत्याद्यभिदधन्साधुः, सार्द्धं तेन स्वबन्धुना । जगाम झगिति ग्रामं, विनोदो ह्यध्वलङ्घकः ।।६९।।
ततो नवोढवेषेणा-नुजेन सह तं मुनिम् । वसत्यासन्नमालोक्य, प्रोचिरे क्षुल्लका मिथः ।।७०।। परिव्राजयितुं नून-मनुजन्मानमानयत् । सत्याकर्तुं निजां सन्धां, सत्यसन्धो महामुनिः ।।७१।। दृष्ट्वा तं गुरवोऽप्यूचु-र्भवदत्तक! एष कः ? । सोऽभ्यधादनुजो मेऽसौ, प्रव्रज्यार्थमिहागतः ।।७२।। आचार्यभवदेवोपि, पृच्छ्यते स्म ससम्भ्रमैः । किं व्रतार्थ्यसि भो भद्र !, श्रुत्वैवं सोऽप्यचिन्तयत् ।।७३।। इतः प्राणप्रिया बाला, नवयौवनवर्तिनी । इतो मे ज्यायसो भ्रातु-रनुल्लङ्ध्यमिदं वचः ।।७४ ।। एकतोऽभिनवोदूढ-प्रेयसीविरहो महान् ।
अन्यतो लघुता भ्रातुः, श्रेयः किं ? यत् करोम्यहम् ।।५।। इत्यालोच्य स निश्चित्य, प्राप्तकालमिदं खलु । मा भूद् भ्राता मृषाभाषी, साधुष्वोमित्यथाब्रवीत् ।।६।। अथाचार्याः परिव्राज्य, भवदेवं तदैवं हि ।
विन्ध्याद्विक्कमिवादाय, व्यहार्षुः सपरिच्छदाः ।।७७।। * ०कीम् २, ०कम् ४.६.७.९.१० ।। । स० ८.९ ।। १. शीघ्रम् १० टि० ।। २. ओम् ।। - रोमि० ६-९ ।। ३. 'विक्को-विंशति वर्षो हस्तिः १-३.१० टि० ।। * द्विप० ६.८.९. ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org