________________
२४
श्रीतिलकाचार्यविरचितटीकायुतम् वार्यमाणोऽपि तल्लोकै-र्मा मा गच्छेति वादिभिः । किमर्द्धमण्डितामेतां, बालामृत्सृज्य गच्छसि ।।५४।। . . सवयोभिर्वयस्यैश्च, भण्यमानो मुहुर्मुहुः । रतेरिवानुजामेतां, मुक्त्वा क्व प्रस्थितोऽसि ? भोः! ।।५५ ।। वन्दित्वात्मीयसोदर्य, सुचिराभ्यागतं मुनिम् । एष शीघ्रः समेमीति, स तेषामुत्तरं ददत् ।।५६।। उच्छलन् हर्षकल्लोले-वोहित्थमिव वारिधौ । आगत्य भ्रातरं भक्त्या, ववन्दे स्नेहनिर्भरः ।।५७ ।। युग्मम् सोऽपि तं वार्त्तयन् सर्पिः- पात्रं तस्यार्पयत्करे । दातुकामो व्रतं तस्मै, तदीयां वर्णिकामिव ।।५८।। कृतकृत्यस्ततः साधुनिरगात्तदगारतः ।। अन्वगुः स्वजनाः सर्वे, तं स्वामिनमिवानुगाः ।।५९।। मुनिश्चावद्यभीरुत्वा-नाभाणीद्वलतेति तान् । निर्विद्य वलितास्तेऽथ, नत्वा नुत्वा मुनिं स्वयम् ।।६० ।।
भवदेवः पुनर्दध्यौ, सर्वेऽपि व्याघुटन्त्वमी । कथं पुनर्निवर्तेऽह-मविसृष्टः स्वबन्धुना ।।६।। व्यावर्तितुमनाः किन्तु, स्मरंस्तामर्द्धमण्डिताम् ।। बान्धवानुमतिं वाञ्छ-नुपायेनाब्रवीदिदम् ।।६२।। स्वकुलस्येव सीमानं, न सीमानमिमामहम् । भ्रातः! सहापि केनापि, कदाचिदुदलङ्घयम् ।।६३।। क्रीडितं सुचिरं भ्रातः, सहकारवनेऽत्र च । परभागोऽस्य नत्वैक्षि, पृष्टभाग इवात्मनः ।।६४ ।। अध्वा भ्रातरपूर्वोऽयं, मम सर्वोऽप्यतः परम् ।
कूपमण्डूक एवाह-मस्मि बान्धव! सर्वथा ।।६५।। १. रतेः भगिन्याम् १० टि० ।। * ०० १.४.५, नं० ६-१० ।। . ०ष्यामी १० ।। २. नौः ।। ३. विशिष्टवस्तु ।। 0 ०नि० ५-९।। * सु० ८ ।। है भ्रात्रा ६.९, भ्राता ७.८ ।। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org