SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् अथान्यदा विहारेण, तं देशं गुरवो ययुः । वायोरिव मुनिनां हि, कदाचित् कुत्रचिद् गतिः ।।४२।। साधुना भवदत्तेन, व्यज्ञप्यत, गुरुस्ततः । स्वजनान् द्रष्टुमिच्छामि, प्रभो ! भवदनुज्ञया ।। ४३ ।। तमेकमपि गीतार्थ- मादिशन्ति स्म सूरयः । A सिंहस्यापि सहाय: किं, जायते जातु कुत्रचित् ? ।।४४।। "अगमद् भवदत्तोऽथ, सुँग्रामे स्वजनौकसि । निर्वाहयितुकामः स्वां, सन्धां साधुमतल्लिका ॥। ४५ ।। उदूढो भवदेवस्तु, नागदत्तसुतां तदा । वासुकीतनुजन्मानं, नागिलां नाम कन्यकाम् ।।४६ ।। तदानीं चागतं वीक्ष्य, भवदत्तमहामुनिम् । सर्वेऽपि बन्धवस्तुष्टाः, केकिवज्जलदागमे ।। ४७ ।। ततोऽभिवन्द्य सानन्दाः, साधुं ते पादपद्मयोः । शिरांस्यलिकुलश्रीणि, लगयित्वावदन्नदैः ।।४८ ।। उत्सवस्यास्य चूलाऽस्तु, मुनेऽवस्थानतस्तव । सुकृतान्यर्जयन्त्वेते, जनास्त्वद्वरिवस्यया ।।४९ ।। भवदत्तोऽभ्यधात् सम्प्रत्युद्वहव्यग्रतास्ति वः । तदेष्यामो ऽन्यवेलायां गमिष्यामो ऽधुना पुनः || ५० ।। इत्युक्त्वा प्रस्थितं तं च, भक्त्या ते प्रत्यलाभयन् । विचित्रैः खण्डखाद्याद्यै-राहारैर्दोषवर्जितैः ।। ५१ ।। , तदा च भवदेवस्तु, कुलाचार इति स्वयम् । मण्डनं विदधानोऽभून्नवोढायाः कपोलयोः ।। ५२ ।। भवदत्तागमं श्रुत्वा, जातोत्कण्ठस्तदीक्षणे । Jain Education International मुनिवद् गुरुणाहूत - स्त्यक्त्वा तां सहसोत्थितः ।। ५३।। * आ० ८ ।। ५ स्व० २.६.८-१० ।। ० ०पयतु० ८ ।। १. प्रतिज्ञाम् २ टि० ।। २. प्रशस्त १० टि० ।। * ०कः ५.८.९, ०काः ७ ।। ०थ १० ।। + तच्च ८.९ ।। २३ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy