________________
२०
श्रीतिलकाचार्यविरचितटीकायुतम् गच्छे तत्रैकदा कोऽपि, साधुर्व्यज्ञपयद् गुरुम् । प्रभो! गत्वानुमत्या वः, स्वजनान् वन्दयाम्यहम् ।।३०।। अनुजन्मास्ति मे तत्र, स्नेहलः सुतरां मयि । स गृह्णीयाद्यदि पुनः, संयमं मम दर्शनात् ।।३१।। ततस्तं गुरुरादिक्षत्, समं गीतार्थसाधुना । जेतुं चक्रीव सेनान्यं, बहिः खण्डान् बेलैः समम् ।।३।। सोऽथागात्तं पितुर्गामं, पितुर्वेश्म विवेश च । अद्राक्षीदनुजोद्वाहारम्भसंरम्भमद्भुतम् ।।३३।। विवाहरभसेनोचैर्मुनेस्तस्यानुजस्तदा । स्मरग्रहपराधीन, इव किञ्चिद् विवेद न ।।३४ ।। व्रतादानादि दूरेऽस्तु, स नवोढा विमूढधीः । अग्रजं मुनिमायात-मालापेनापि नार्पणत् ।।३५।। स विलक्षो निवृत्त्याथ, पार्श्वेऽभ्येत्य गुरोर्मुनिः । , आलोच्यावेदयत्सर्वं भ्रातृवृत्तं यथातथम् ।।३६।।
भवदत्तस्तदाकर्ण्य, निजगाद स्मिताननः । अहो स्नेहस्तव भ्रातु-र्योऽसौ नान्यस्य कस्यचित् ।।३७ ।। यस्त्वां सहोदरं ज्येष्ठं, नान्वगच्छञ्चिरातिथिम् । नवाप्तवनितामात्र-सङ्गरङ्गनियन्त्रितः ।।३८ ।। . तत्कालकरलग्नायाः, पन्नग्या इव योषितः । त्वमप्यसि सुधीर्बन्धो-रागं विषमिवाहरत् ।।३९।। सोऽप्यूचे भवदत्तं भोः, पाण्डित्यं ज्ञास्यते तव । अनुजस्यापि च स्नेह-स्तं चेत्प्रव्राजयिष्यसि ।।४०।। भवदत्तोऽप्यवादीत्तं, तं प्रदेशमहो यदि ।
यास्यन्ति गरवः सर्वं, द्रक्ष्यसि त्वं चिरान तत् ।।४१।। * ०त्वे० ८ ।। . राख्यत्, ९ ।। ० ०क्ष गीतार्थं मुनिसंयुतम् १ ।। गीतार्थं मुनिसंयुतम् ३.४ ।। । बलान्वितम् १-३ ।। + मु० २ ।। . रीधा० ८.९.।। गृ० ५ ।। * ०थ ८.11 . ततोऽचिरात्,
३.४।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org