________________
श्रीदशवैकालिकसूत्रम् किं च वो व्याख्यया स्वामिन् ! वस्तुयाथात्म्यदर्शनात् । मोहेन्द्रजालिकस्याथ, दृग्बन्धो मे न्यवर्त्तत ।।१८।। एवं व्याख्याय तां व्याख्या, भवदत्तो गृहं गतः । व्रतार्थं पुरतः पित्रो-दौस्थ्यमूचे भवस्थिते ।।१९।। अपारमप्यकूपारं, तरन्ति द्रव्यलिप्सया । न पश्यन्ति ब्रूडन्तं स्वं, दुस्तरे भवसागरे ।।२०।। दारयन्ति भुवं शी(सी)रैः, कुटुम्बार्थं कुटुम्बिनः । दीर्यमाणं विदुर्न स्वं, क्रकचैरिव कल्मषैः ।।२१।। धनायन्तोऽर्थमापाद्यैर्वञ्चन्ति वणिजः प्रजाः । नात्मानं सुगतेर्वञ्च्य-मानं जानन्ति दुर्धियः ।।२२।। मन्ति प्रजार्थं राजार्थं, सेवकाः स्वार्थतत्पराः । नेक्षन्ते परमार्थेन, स्वार्थहानि तमोऽर्जनात् ।।२३।। सप्रत्यवायाः संसार-व्यवसाया इमेऽखिलाः । न निर्वाणसुखोपायाः, किन्त्वपायाः शरीरिणाम् ।।२४ ।। तन्मातस्तात! युष्माभिः, पूर्यतां मे व्रतस्पृहा । सुखैकशय्यां प्रव्रज्यां, गुरोर्येनाददेऽधुना ।।२५।। ऊचतुस्तौ व्रते वत्स!, कः प्रस्तावस्तवाधुना । निर्विनः कामभोगेभ्यो, गृह्णीथा वार्द्धके व्रतम् ।।२६।। वार्द्धकं भावि नो वेति, तातौ! कस्यास्ति निश्चयः । शैशवादपि तद्धर्मः, कृत्यः प्रेत्यसुखावहः ।।७।। इत्थं प्रबोध्य पितरावुक्तिप्रत्युक्तिभिः सुधीः । भवदत्तो भवान्ताय, युवाप्यादत्त संयमम् ।।२८।। विहरन् गुरुभिः सार्द्ध-मथाधीयन् श्रुतं च सः ।
क्रमेणाद्भूद्गुणैस्तैस्तै-गुरोः प्रतिशरीरवत् ।।२९।। * चात्र ५, चान्यत् ६-१० ।। प्या० ८ ।। - मायेन्द्र० १.३.४, माहेन्द्र० ५-१०, अयं मूलपाठः १० टि०।। १. वर्णयित्वा ९ टि० ।। २. समुद्रम् २ टि० ।। ३. हलैः ।। ०र्थे ५-७.९.१० ।। ४. जानन्ति २ टि० ।। ५. धनमिच्छन्तः २ टि०, धनार्थम् ९ टि० ।। ६. तोलमापप्रभृतिभिः ।। २ ०पार्ध १० टिप्पण्यां पाठः, पार्थ्य० ३ ।। ७. पापोत्पादनात् ९ टि० ।। + ततः ७-१०. ।। . ०मधीयान: ६.९.१०, मधीयानम् ८ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org