________________
श्रीतिलकाचार्यविरचितटीकायुतम् क्षमापतिशतैः सेव्यः, प्रसाधिताद्भुतक्षमः । सञ्चक्रजनितश्रीक-श्चक्रवर्तीव यत्यपि ।।८।। भानुमानिव तेजस्वी, पादैः पृथ्वी पवित्रयन् । एकदा सुस्थिताचार्य- स्तत्रोद्यानेऽवतीर्णवान् ।।९।। चतुर्भिकलापकम् सुधास्यन्तः प्रयान्ति स्म, तदा कर्णपुटैर्जनाः । कणेहत्यवचस्तेषां, यातुं पीयूषसोदरम् ।।१०।। व्याख्यामधरितद्राक्षा-माविश्चक्रे गुरुस्तदा । अतिभीष्मभवग्रीष्म-तापं नृणां हरन्निव ।।११।।
भो भो भव्याः! भवारण्ये, भ्राम्यतां भविनामिह । दुर्लभं मानुषं जन्म, मूकानामिव वाग्मिता ।।१२।। मानुषत्वेऽपि सम्प्राप्ते, केचिनिःफलजन्मकाः । दीपोत्सवकृता द्वारि, छगणस्येव पुत्रकाः ।।१३।। केचित् क्षणिकसौख्येषु, रज्यन्ते विषयेष्विह । ... न पुनः श्रीजिनेन्द्रोक्ते, धर्मे शाश्वतसौख्यदे ।।१४ ।। शम्येकपल्लवच्छाया-प्राये भवसुखे रताः । न कल्पपादपच्छाया-कल्पे शिवसुखे पुनः ।।१५।। श्रुत्वोवाचार्जविः पूज्या, देशना वः किमुच्यते । ' नेदृशः सुमनोभावो, वसन्तेनापि जन्यते ।।१६।। क्षीरस्यापि रसो नेदृग्, नैषोक्तिः सुकवेरपि ।
नेक्षोरपीदृग्माधुर्यं, यादृक् वो देशनाध्वनैः ।।१७।। १. यथा पृथ्वीपतिशतैः सेव्यः, विजितविस्तृतभूमिकः श्रेष्ठचक्रोत्पादितलक्ष्मीकश्चक्री वर्तते, तथा क्षमाधारकमुनिशतैः सेव्यः, प्राप्तानुपमक्षमाकः, साधुवृन्दपरिवृतशोभः मुनिरपि चक्रवर्तितुल्यः सूरिः समाययौ ।। *दि० २।। २. यथा तेजस्वी सूर्यः किरणैः क्षमा प्रकाशयति, तथा तपसादिगुणैः तेजस्वी चरणैः भूमितलं पावनं कुर्वन् सुस्थिताचार्यस्तत्रोद्याने एकदा समागतवान् ।। • पदैः ५-१० ।। ३. सुधामभिलषन्तः २ टि०, सुधामिच्छन्तः ३ टि० ।। ४. यावत्तृप्तिः २ टि०, आतृप्ति ३ टि०, श्रद्धया १० टि० ।। 0 ०गुरु० ९, अयं मूलपाठः ९ टिप्पण्यामपि दृश्यत ।। ताष्म० ८।। १०च्छ० ५.६.८-१० ।। ५. वृक्ष १० टि० ।। ६. लीनाः ९ टि० ।। ७. भवदत्तः ९ टि० ।। ८. युष्माकं किं प्रशस्यते ९ टि० ।। ९. चैत्रेण [मासेन] २ टि० वसंतपक्षे पुष्पाणां भावः, देशनापक्षे सुष्ठुशोभनो मनोभावः ९ टि० ।। + ते ६-१० ।। . नौ ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org