SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् । भवदत्त-भवदेवकथा । स्फुरदृशः सुवृत्ताङ्गः, सदालोकमनोरमः । जम्बूद्वीप इति द्वीपः, प्रदीप इव भासुरः ।।१।। सुपर्वोत्तमपक्षाढ्यं, चन्द्रार्काहर्निशस्थिति । वर्षवद्धारतं वर्ष-मृतुषट्कोपशोभितम् ।।२।। तस्मिन् मगधदेशोऽस्ति, दिनवैद्रविणोज्ज्वलः । ग्रामः समयवांस्तत्र, सुग्रामोऽस्ति मुहूर्त्तवत् ।।३।। तत्रार्जवो राष्ट्रकूटः, समभूत् कुलपुत्रकः । भार्या च रेवती तस्य, भुवं प्राप्तेव रेवती ।।४।। सुतौ तयोरतिस्निग्धौ, मिथों रामाच्युताविव । महीयान् भवदत्तोऽभूद्, भवदेवस्तु कन्यसः ।।५।। आकृष्य प्रगुणं धर्म, परामृष्टेषणः क्षणात् । निगृह्णन्नान्तरारातीन्, महायोध इवोद्यमी ।।६।। निरभ्रयेव कौमुद्या, व्याख्यया निरवद्यया । प्रबोधयन् कुवलयं, सुधांशुरिव निर्मल: ।।७।। १. दीपवत्त्याँ पक्षे कालकृतविशेषरूपायाम् १० टि०, यथा स्फुरायमाणवतिः वर्तुलाकारः सर्वदा प्रकाशेन मनोहरः देदीप्यमानो दीपः शोभते, तथा प्रवर्द्धमानस्थितिः, वर्तुलाकारस्वरूपः, सर्वकाले दर्शने रमणीयः जम्बूद्वीप इति नाम्ना द्वीपः शोभमानो वर्तते ।। २. शक्रः तस्य पक्षेण आढ्यम्, तस्य शक्रेण सारा कार्येति तस्य क्षेत्रम १ टि०, सुपर्वोत्तमः सौधर्मेन्द्रः, तस्य पक्षेण आढ्यं, सौधर्मेन्द्रेण तस्य सारा कार्यति तत्पक्षत्वम् ३ टि०, शक्रस्तस्य पक्षेण आढ्यम १० टि०, यथा सुपर्वणी-पूर्णिमामावास्ये, उत्तमे-अन्ते ययोः, एतादृशौ-पक्षी-शुक्लवदिरूपौ, ताभ्यामाढ्यं-सहितं, सूर्यचन्द्रयोः दिवसरात्रिमध्ये स्थितिर्यत्र, तादृशम्, षड्ऋतुसमलङ्कृतं वर्ष-संवत्सरो वर्तते, तथा सुपर्वाणः देवाः, तेषामुत्तमः= श्रेष्ठ-शक्रः तस्य-पक्षण क्षेत्रेण विशिष्टं, चन्द्रसूर्यदिनरात्रस्थितिकम्, ऋतषटकसमन्वितं भारतं वर्षमस्ति ।।*०ढ्य० ५.७. ढ्यश्च०. ७.९ ।। ३. यथा तत्र संवत्सरे सयेणोपशोभितो दिवसो वर्तते, तथा-तत्र भारतवर्षे सूर्येण प्रकाशितो मगधदेशोऽस्ति, यथा तत्र-दिवसे क्षणवान् मुहूर्तोऽस्ति, तथा-तत्र मगधदेशे आचारवान् सुग्रामाख्यो ग्रामो वर्तते ।। • चन्द्र० ८ ।। 0 नो०, ६.८.९ ।। भार्याभूद्रेवती ५-१० ।। ४. स्नेहलौ परस्परौ ९ टि० ।। ५. यथा-ज्याविशिष्टं धनुराकृष्य, क्षणात् सज्जितबाणः, मध्यगतशत्रूनां निग्रहं कुर्वन् महायोद्धा उद्यमशीलः, तथा प्रकृष्टगुणकं धर्म स्वीकृत्य क्षणात् एषणा-भिक्षाचर्चा, तस्यां सज्जः, आन्तरशत्रून् क्रोधादीन् दमयन्, समित्यादिसंयमाचारपालने उद्यमी, एतादृशः सूरिः समागतः ।। ६. पणछ १० टि० ।। मृष्टिचण: ७-१०, ०मृष्टेषणः ५.६, अयं मूलपाठः १० टिप्पण्यामपि ।।+ ता०८ ।। ७. यथा निष्कलङ्कः चन्द्रः मेघरहितया ज्योत्स्नया चन्द्रविकासिकमलं विकासयति, तथा विशुद्धः आचार्यो निष्पापया व्याख्यया पृथ्वीतलवर्तिजनानामज्ञानं विनाशयन् समाजगाम ।। . ख्या० ८।। ८. महीमण्डलम् ९ टि०।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy