SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् धर्मवित्तविहीनस्त्वं, विषयार्त्या मृतस्ततः । तिर्यग्भवमवाप्तोऽसि देहीतोऽपि व्रते मनः ।। ३९ ।। ततः प्रबुद्धः क्षान्तेन, बोधितः शुद्धवासनः । विधायानशनं मृत्वा, सुरलोके सुरोऽभवत् ।।४०।। एवं पदे पदे सीदन् साधुर्यथोक्तक्षुल्लकवत् चारित्रे श्लथीभवन् सङ्कल्पस्य दुष्टविषयाध्यवसायस्य वशं गच्छति, तस्मात् कामाः साधुना निवारणीयाः ।। किञ्च वत्थगंधमलंकारं इत्थीऔ सयणाणि य । । अच्छंदा जे न भुंजंति, न से चाइत्ति वुइ ।। २ ।। वस्त्रं-चीनांशुकादि । गन्धः- कर्पूरकस्तूरिकादिः । मेकारोऽलाक्षणिकः । अलङ्कारः-कटककेयूरादिः। स्त्रियः - अनेकप्रकाराः । शयनानि - पल्यङ्कादीनि । चशब्दाद् गब्दिकादीन्यासनानि । अच्छंदत्ति अच्छन्दान्- अनात्मवशान्, अविद्यमानान् ये न भुञ्जन्ते-आजीविकामात्रनिमित्तं गृहीतव्रताः । भोक्तुकामाः अप्यसम्पत्तितो नासेवन्ते । न से चाइत्ति वुच्चइ । प्राकृतत्वाद् बहुवचनस्थाने एकवचनम् । ततो न ते त्यागिनो, न ते श्रमणा उच्यन्ते । ये चॅ सतो पि भोगान् भोगान्तरायवशादौषधादिभिः प्रतिहतवीर्याः, यदि भुञ्जते ततो म्रियन्ते, अतो जीवितार्थिनो भोक्तुमनसोऽपि सन्तो न भुञ्जते । साधुसामाचार्यै अवतिष्ठन्ते। नन्दामात्यसुबन्धुवत्, न ते त्यागिनः श्रमणा उच्यन्ते। कः पुनः सुबन्धुरिति। तत्कथानकमुच्यते । तथा हि ९ ↑ ।। सुबन्धुकथा ।। .नगरात् पाटलीपुत्रा नन्दं निर्वास्य भूपतिम् । चन्द्रगुप्तं नृपं चक्रे, चाणक्यो मन्त्रिपुङ्गवः ।।१।। चन्द्रगुप्ते गते स्वर्ग-लोकं तस्यैव नन्दनः । बिन्दुसारोऽभवद्राजा, तदीयप्रतिबिम्बत् ।।२।। Jain Education International ०च० ८ ।। १. इतोऽपि मनः व्रते देहि [ इत्यन्वयः ] ८ टि० ।। च० ५-८ ।। ० ० ५-८.११ ।। ।। है ०द्दि० ५.६.८-१० ।। + ०नि ०दिः अलङ्कारः १-४.७.११ ।। २. अनुस्वारोऽलाक्षणिक इति हारि० अच्छन्दान् ५-८ । व० ५.८ ।। ३. दूरीकृतप्रभावाः ६ टि० ।। ० ५ ११ ।। * ०न्ते न ते ११ ।। ४. दूरीकृत्य ६ टि० ।। चाणिक्यो १-४, चाणाक्यो १० । । ५. चणी चाणक्य इत्याख्यां ददौ तस्याङ्गजन्मनः इति परिशिष्टपर्वणि (सर्ग ८ / २०० ) ।। ६. प्रतिमानं प्रतिबिम्बम् [ २.१०.३५ ] इत्यमरः ६ टि० ।। For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy