SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीतिलकाचार्यविरचितटीकायुतम् आर्तध्यानाच्च सञ्जातो, महिषः कर्मदोषतः । चारित्ररत्नं प्राप्यापि, पापिना यद्विराधितम् ।।२७।। वाह्यतेऽहर्निशं भारं महिषः प्राप्तयौवनः । , भक्तं भुक्तं परेषां चैं, यद् व्रतं न कृतं ततः ।।२८।। क्षान्तश्चालोच्य शुद्धात्मा, व्रतं शुद्धं प्रपाल्य च । दुस्तपं च तपस्तप्त्वा, काले दिवमवाप्तवान् ।।२९।। क्षान्तदेवस्ततः स्नेहाद् दध्याववधिसंविदा । अद्राक्षीत् क्षौल्लकं जीवं, तदा महिषरूपिणम् ।। ३० ।। तस्य प्रबोधमाधातुं, तदीयस्वामिपार्श्वतः । क्रीत्वा गृहीत्वा महिषं, भारमारोप्य वैक्रियम् ।। ३१ ।। तं वाहयितुमारेभे, पीडितं चातिभारतः । अशक्नुवन्तं चलितुं, तोत्रेण तुदति स्म तम् ।। ३२ ।। वदंश्च न क्षमे क्षान्ता-नुपानत्क्रमितुं । सर्वाण्येतानि वाक्यानि, श्रावयन्नतु॑दद्भृशम् ।।३३।। शृण्वानस्तानि वाक्यानि, महिषो दध्यिवानिति । कदैतान्यहमश्रौष-मितीहापोहकारिणः ।। ३४ ।। तस्य जातिस्मृतिर्जेज्ञे, प्रत्यक्षप्राग्भवोऽभवत् । देवोऽप्यवधिना ज्ञात्वा, तस्य जातिस्मृतिं ततः । । ३५ ।। युग्मम् । तं प्रत्यवक् त्वमारूढो, रसाले फलशालिनि । परं नास्वादितं वत्स!, तत्फलं पेशलं त्वया । । ३६ ।। दृष्टः पुरस्त्वया वत्स!, रत्नानां निधिरद्भुतः । ततः श्रेयःफलं रत्नं, नैकमप्याददे परम् ।।३७।। प्राप्य संयमसाम्राज्यं, ग्रामकस्येव कस्यचित् । एकस्यापि व्रतांशस्य, नौत्तमुद्ग्राहितं त्वया ।।३८ ।। २. आरेण ६ टि० ।। ३. व्यत्ततो व्रतमकुर्वता १, यदकुर्वता व्रतं ततः ५-८ ।। १. ज्ञानेन २ टि० ।। पीडयति स्म ६ टि० ।। ५०नु० ५-७ ।। ०ध्य० ८ ।। ४. बभूव २ टि० ।। २ ।। + ०खिनि ६.८ ।। ५. मनोज्ञम् ६ टि० ।। ६. न गृहीतम् ३ टि०, न एकव्रतांश आत्तं धारितं, ०तिः ८ ।। यु उद्ग्राहितहीयेमें न रुचायो ८ टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy