________________
. श्रीतिलकाचार्यविरचितटीकायुतम् सुबन्धुस्तमथो नन्द-सचिवः स्वामिभक्तितः । वैरं वालयितुं भर्तु- बिन्दुसारमसेवत ।।३।। तेन व्यज्ञप्यतैकान्ते, बिन्दुसारनृपोऽन्यदा । अस्थापितोऽपि मन्त्रित्त्वं, देव! किञ्चित् करोम्यहम् ।।४।। यद्यप्यस्मगिरः स्वामि-नर्धन्त्यत्र तथापि हि । पट्टस्यास्य हितं वक्तुं, जिह्वा कण्डूयते मम ।।५।। य एष देव! चाणिक्यो, मन्त्री सोऽस्त्यतिदारुणः । विदार्योदरमेतेन, भवन्माताप्यमार्यत ।।६।। ततः स्वात्मापि यत्नेन, रक्षणीयस्त्वया नृप!। सोऽथ प्रपच्छ तद्धात्री, साप्यवादीदभूदिदम् ।।७।।
ततः क्रुद्धः स चाणिक्ये-ऽभ्यायात्यासीत् पराङ्मुखः । खलप्रवेशं विज्ञाय, चाणिक्योऽपि गृहं गतः ।।८।। अलं प्रत्याय्य पृथुकं, किमारम्भेण मेऽधुना । अवश्यमेव मर्त्तव्ये, म्रियते किमशम्बलैः ।।९।। इति ध्यात्वा परित्यज्यं, राज्याकाङ्क्षां निजं धनम् । चाणिक्येनौप्यताशेष, सप्तक्षेत्र्यां सुबीजवत् ।।१०।। अथेष्टस्वजनादीना-मौचित्त्येनोपकृत्य च । अनाथदीनदुःस्थानां, दानं दत्वानुकम्पया ।।११।। विचार्य तुर्यया बुद्ध्या, प्रतीकारक्षमं रिपोः । पत्रकं गन्धचूर्णं च मध्यान्मध्ये निधाय च ।।१२।। गत्वा बहिः करीषान्तः संस्थानस्थण्डिले गवाम् ।
विधायानशनं तस्था-विंगिनीमरणेच्छया ।।१३।। १. सेवयामास ६ टि० ।। * समा ५ ।। २. स्वशरीरम् ६ टि० ।। ३. सन्मुखमागच्छति सति ६ टि० ।। ४. दुर्जनप्रवेशं ज्ञात्वा ६ टि०, खलचुगल [कावादावा] ८ टि०, क्रूर १० टि० ।। ५. बालकस्य प्रत्ययं कारयित्वा ६ टि०, प्रत्ययम् [विश्वासम् ] उत्पाद्य ८ टि० ।। ६. अपाथेयैः ।। . ०स० ६.८ ।। ७. चिन्तयित्वा ६ टि० ।। ० ०क्ता ६.८ ।। ८. उप्तवान् वाव्यु ६ टि० ।। ९. समस्तम् ६ टि० ।। १०. सादृश्येन दत्वा ६ टि० ।। ११. दयया ६ टि० ।। १२. चतुर्थ्या पारिणामिक्या २ टि० ।। १३. कोष्ठात् मध्ये सिन्दूके स्थाप्य ६ टि० ।। १४. नगराद् बहि: गत्वा गवां संस्थानथण्डले [पवित्रभूमौ] करीषान्त छगण [छाण] खण्डक्षरत् स्थानम्, तत्रानशनं विधाय तस्थौ ८ टि० ।। १५. अनशनविशेषः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org