________________
श्रीतिलकाचार्यविरचितटीकायुतम्
अनित्यं खलु - अनित्यमेव । मनुष्याणां जीवितम् । कुशाग्रबिन्दुचञ्चलम् - सोपद्रवत्वादनेकोपद्रवविषयत्वात् । अत्यन्तासारम् । तदलं गृहाश्रमेणेति षोडशम् ।। १६ ।। तथा, बहुं च खलु-बह्वेव । भोः पापम् - क्लिष्टम् । कर्म - चारित्रमोहनीयादि । प्रकृतम्-निर्वर्तितं मया । न हि प्रभूतक्लिष्टकर्मरहितानाम् एवं चारित्रत्यागबुद्धिर्भवति।।१७।।
५०६
तथा पापानां च, चकारात् पुण्यरूपाणां च । खलु भोः कृतानां च मनोवाक्काययोगैरोघतो निर्वर्त्तितानाम् । खलुशब्दात् कारितानामनुमतानां च । कर्मणाम्ज्ञानावरणीयादीनाम् । पूर्वम्-अन्यजन्मनि । दुश्चरितानाम् - मिध्यात्वाविरतिकषाययोगैराचीर्णानां परतीर्थाद्याराधनमद्यपानदौः शील्यानृतलक्षणानां तेषामेव दुःप्रतिक्रान्तानाम्दुरालोचितानाम्, अनालोचितानां वा । भावतोऽदत्तमिथ्यादुः कृतानां वेदयित्वानुभूय फलमिति शेषः । मोक्षो भवति । नास्त्यवेदयित्वा - अनेन सकर्मणां मोक्षव्यवच्छेदमाह । तपसा वात्युग्रेण क्षपयित्वा । अतस्तप एव श्रेयो, यतः सर्वकर्मक्षपणेन मोक्षावाप्तिः । तत्किं दुर्गतिदायिना गृहाश्रमेणेति प्रत्युपेक्षणीयम् । अष्टादशं पदं भवति । भवति चात्र श्लोकः - इह जात्या एकवचनं, ततश्चोक्तानुक्तार्थसङ्ग्रहपरा श्लोकजातिरिति । तत्राद्यश्लोक:
T
जया चयइ धम्मं, अणज्जो भोगकारणा ।
से तत्थ मुच्छिए बाले, आयई नावबुज्झइ ।।१।।
यदा - अष्टादशसु व्यावर्तनकारणेषु सत्स्वपि त्यजति । धर्मम् चारित्रलक्षणम् । अनार्य इव, अनार्यः-म्लेच्छचेष्टितः । भोगकारणात् भोगनिमित्तम् । स धर्मत्यागी । त्र - भोगेषु । मूर्च्छितः - गृद्धः । बालः - अज्ञः । आयतिम् - आगामिकालम् । नावबुध्यते ।। एतदेव दर्शयति
तत्र-1
जया ओहाइओ होइ, इंदो वा पडिओ छमं ।
सव्वधम्मपरिब्भट्ठो, स पच्छा परितप्पड़ ।।२।।
यदा अवधावितो भवति-संयमसुखविभूतेः उत्प्रव्रजित इत्यर्थः । इन्द्र इव पतितः क्षमाम् । सर्वधर्मेभ्यः - पूर्वासेवितेभ्यः, लौकिकेभ्यो गौरवादिभ्यः परिभ्रष्टः । स पश्चाद्-ईषन्मोहापगमे । परितप्यते आः किमिदमकार्यं मयानुष्ठितमित्यनुतापं करोति ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org