________________
श्रीदशवैकालिकसूत्रम्
५०७ जया य वंदिमो होइ, पच्छा होइ अवंदिमो ।
देवया व चुया ठाणा, स पच्छा परितप्पई ॥३॥ यदा प्रव्रजितः सन् वन्द्यो भवति । पश्चाद्-उत्प्रव्रजितः अवन्द्यः । शेषं स्पष्टम् ।।
जया य पूइमो होइ, पच्छा होइ अपूइमो । राया व रजपब्भट्ठो, स पच्छा परितप्पई ॥४॥ प्राग्वत् ।। जया य माणिमो होइ, पच्छा होइ अमाणिमो । सिट्ठीव कब्बडे छूढो, स पच्छा परितप्पई ।।५।। माणिम:-मान्यः । कर्बटे-क्षुद्रसन्निवेशे ।। जया य थेरओ होइ, समइक्वंतजुव्वणो । मच्छु ब्व गलं गलित्ता, स पच्छा परितप्पई ॥६॥
यदा च संयमं त्यक्त्वा भुक्तभोगः समतिक्रान्तयौवनः स्थविरो भवति । तदा वयःपरिणामे विपाककटवो भोगाः, इति चिन्तयन् मत्स्य इव । गलम्-बडिशम् । गिलित्वा कर्मोहकण्टकविद्धः । स पश्चात् परितप्यते ।।
जया य कुकुडुंबस्स, कुतत्तीहिं विहम्मई । हत्थी व बंधणे बद्धो, स पच्छा परितप्पई ।।७।।
यदा च उत्प्रव्रजितस्य जातकुकुटुम्बस्य सम्बन्धिनीभिः कुतप्तिभिःआत्मपरसन्तापकारिणीभिः । विहन्यते-विषयभोगान् प्रति विघातं नीयते । कुटुम्बबन्धनेन बद्धः । उत्तरार्द्धं स्पष्टम् ।।
पुत्तदारपरिक्त्रिो, मोहसंताणसंतओ । पंकोसन्नो जहा नागो, स पच्छा परितप्पई ।।८।।
उत्प्रव्रजितो विषयासक्तः कलत्रपुत्रादिभिः, परि-समन्तात्, कीर्णो-विक्षिप्तः । मोहसन्तानसन्ततः-दर्शनमोहनीयकर्मप्रवाहेण व्याप्तः । पङ्कावसन्नो यथा नाग: कर्दमावमग्नो वनगज इव । स पश्चात् परितप्यते । हा हा किं मयेदमसमञ्जसं चेष्टितमिति ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org