________________
श्रीदशवैकालिकसूत्रम्
दुर्गतिव्याधिजनकं च । ततः किमेतेनेति षष्ठम् ।।६।।
अधरगतिवासोपसम्पत्-अधरगतिर्नरकगतिस्तिर्यग्गतिश्च । तत्र वासाय उपसम्पत्अङ्गीकरणम् । तदेतदुत्प्रव्रजनं तदधोगतिगतौ सत्यङ्कारकल्पम् । ततः किमेतेनेति सप्तमम् ।।७।।
दुर्लभः खलु गृहिणां धर्मः गृहपाशमध्ये वसताम् गृहे पाशकल्पा:-कलत्रपुत्रादयः, तन्मध्ये वसताम्, अनादिभवाभ्यासाददवरकं बन्धनम् । उक्तं च
अहह ! गृही किमु कुशली, वध्वा संसारसागरे क्षिप्तः । यदि बत लभते पोतं, तेनापि निमज्यते सुतराम् ।।१।। इत्यष्टमम् ।।८।।
आतङ्कस्तस्य वधाय भवति - आतङ्कः सद्यो घाती विसूचिकादिरोगः । तस्यगृहिणो धर्मबन्धुरहितस्य दुर्गतिरूपाय विनाशाय भवति । स च दुर्गतिरूपो विनाशः । उत्प्रव्रजितस्यानेकेषु भवेषु भावीति नवमम् ।।९।।
सङ्कल्पस्तस्य वधाय भवति - इष्टानिष्टवियोगसंयोगजो मानसो विकल्पः । तस्योत्प्रव्रजितस्य साधोर्विकलीभूतस्य चित्तवैकल्पापत्तेः भूतादिग्रहग्रहणे वा दुर्गतौ पातः स्यात् इति दशमम् ।।१०।।
तथा सोपक्लेशो गृहिवासः- उपक्लेशाः - कृषि - पाशुपाल्य - वाणिज्यादिक्रियानुगतापण्डितजनगर्हिताः शीतोष्णश्रमादयः । घृतलवणतैलतण्डुलचिन्तादयश्च । निरूपक्लेशः पर्यायः-प्रव्रज्यारूपः । अनारम्भी चिन्तापरिवर्जितः श्लाघ्यो विदुषामित्येवं चिन्तनीयमित्येकादशम् ।।११।।
५०५
तथा, बन्धो गृहवासः सदा बन्धहेत्वनुष्ठानादूर्णनाभकीटवत् । मोक्षः पर्यायः -प्रव्रज्यारूपः । अनवरतं कर्मनिगडविगमात् मुक्तवदित्येवं चिन्तनीयं द्वादशम् ।।१२।। तथा, सावद्यो गृहवास:- सपापः प्राणातिपातमृषावादादिप्रवृत्तेः । निरवद्यः गृहवासः-सपापः पर्यायः-अपापः-अहिंसादिपालनात्मकत्वात् । इति त्रयोदशम् ।।१३।।
तथा, बहुसाधारणा गृहिणां कामभोगाः - चौरराजकुलादिसामान्याः । कोऽर्थस्तैरप्यपहार्याः । इति चतुर्दशम् ।।१४।।
प्रत्येकं पुण्यपापम्-मातापितृकलत्रपुत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं प्रत्येकं पृथक् पृथग् यद्येनानुष्ठितं, तत्तस्य कर्तुरेव भवतीति पञ्चदशम् ।।१५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org