________________
५०४ - श्रीतिलकाचार्यविरचितटीकायुतम् । अष्टादशस्थानानि । सम्यग्-अत्रैव शब्दयोगः, सम्यगेव सम्प्रत्युपेक्षितव्यानि । सुष्ठु द्रष्टव्यानि भवन्ति । किं विशिष्टानि ? हयरश्मिगजाङ्कुशपोतपटाकाराणि-अश्वखलिनगजाङ्कुश-वोहित्थसितपटतुल्यानि, यथा हयादीनामुन्मार्गप्रवृत्तिकामानं रश्म्यादयो निर्वृत्तिहेतवः, तथैवैतान्यपि, संयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानां कानि तानि ? तद्यथा-हंहो दुःषमायां दुःप्रजीविनः-हंहो इति शिष्यामन्त्रणं, दुःषमायां कालदोषादेव दुःखेन, कष्टेन, प्रकर्षण, उदारभोगाकाङ्क्षया जीवितुं शीलाः दुःप्रजीविनः, प्राणिनः इति गम्यते । राजादीनामप्युदारभोगाप्तौ विपक्षातङ्कादीन्यनेकान्यन्तरायाणि दृश्यन्ते । ततः किमुदारभोगरहितेन विडम्बनाप्रायेण कुगतिहेतुना गृहाश्रमेणेति सम्प्रत्युत्प्रेक्षितव्यं, इति प्रथमं स्थानम् ।।१।।
तथा लाघव इत्वरा गृहिणां कामभोगा:-दुःषमायामिति सर्वत्रानुवर्तते, सन्तोऽपि लघवः-तुच्छाः प्रकृत्यैव तुषमुष्टिवदसाराः । अल्पकाला:-दुषमायामायुषोऽल्पत्वात् । गृहस्थानां कामभोगा:-शब्दादयो विषयाः विपाककटवः प्रभूतान्तरायाश्च । ततः किं गृहाश्रमेणेति द्वितीयम् ।।२।।
तथा भूयश्च पुनः स्वातिबहुला मनुष्याः-सुखेनात्यते-संसाराध्वनि गम्यतेऽनयेति । उणादित्वाद् ‘इण' प्रत्यये । स्वातिर्मायाक्रोधादिभ्योऽप्यसावधिका यया । उपार्जिततीर्थकृत्कर्मापि मल्लिजीवः स्त्रीत्वं प्रातितः । ततश्च स्वातिबहुला-मायाप्रचुरा, मनुष्याः । न कदाचित् परस्परं विश्वासहेतवः, तद्रहितानां च कीदृशं सुखं, भोगार्थं मिथश्चाटुवचनैश्च दारुणतरो मायाबन्धः । तत्तिं गृहाश्रमेणेति तृतीयम् ।।३।।।
तथा इदं च मे दुःखं-शारीरं मानसं च न चिरकालोपस्थायि भविष्यति । आयुषोऽल्पत्वात् । इदं च सोढं संयमानतिचरणेन कर्मनिर्जरया स्वर्गापवर्गाय । असोढं वानन्तदुःखाय नरकाय । अतः किं गृहाश्रमेणेति चतुर्थम् ।।४।। ___तथा अवमजनपुरस्कारः-उत्प्रव्रजितेन हि अवमजनस्यापि अभ्युत्थानादिकः पुरस्कारः कर्तव्यः । अधार्मिकराजराज्ये तु शेषजनवत् सोऽपि वेष्टिं कार्यते । खरकर्मस्वपि नियोज्यते । इति प्रथममेवाधर्मफलम् । प्रव्रज्यां च पालयन् राजामात्यादिभिः पूज्यते । अतः किं गृहाश्रमेणेति पञ्चमम् ।।५।।
तथा वान्तस्य प्रत्यापानम्-भुक्तोज्झितपरिभोग इत्यर्थः । वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन । तेषां पुनरादानं वान्ताहारभोजनकल्पम्, अधमजनस्यापि निन्दनीयं,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org