________________
श्रीदशवैकालिकसूत्रम्
।। अथ द्वितीया रतिवाक्या चूलिका ।।
इत्थममुना प्रबन्धेन एषा चूलिकोत्पत्तिः । एतासां च चतसृणां चूलिकानां श्रीसीमन्धरस्वामिना श्रीमुखेन यक्षिण्या आर्यिकायाः स्वयमुपदिष्टानां मध्याद् ये द्वे चूलिके श्रीसङ्घन दशवैकालिकस्यान्ते योजिते । अद्यापि तत्पर्यन्ते तथैव पठयेते । तयोराद्या रतिवाक्याभिधा चूलिका । तस्या इदमादिसूत्रम्
I
इह खलु भो ! पव्वइएणं उप्पन्न दुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं चेव हयरस्सिगयंकुसपोयपडागारभूयाई इमाई अट्ठारस ठाणाई सम्मं सुपडिलेहियव्वाणि भवंति । तं जहा- हंहो (१) दुस्समाए दुप्पजीवी । (२) लहुसगा इत्तरिया गिहीणं कामभोगा । (३) भुज्जो य सायबहुला मणुस्सा । (४) इमे य मे दुक्खे न चिरकालोवट्ठाइ भविस्सइ । (५) ओमजणपुरक्कारे । (६) वंतस्स पडियाइयणं । (७) अहरगइवासोवसंपया । (८) दुल्लभे य खलु भो गिहीणं धम्मे गिहवासमज्झे वसंताणं । (९) आयंके से वहाय होइ । (१०) संकप्पे से वहाय होइ । (११) सोवक्केसे गिहिवासे निरक्केसे परियाए । (१२) बंधे गिहिवासे मुक्खे परियाए । (१३) सावज्जे गिहिवासे निरव परियाए । (१४) बहुसाहारणा गिहीणं कामभोगा । (१५) पत्तेयं पुन्नपावं । (१६) अणि खलु भो मणुयाण जीविए, कुसग्गजलबिंदुचंचले । (१७) बहुं च खलु भोपावं कम्मं पयडं । (१८) पावाणं च खलु भो ! कडाणं कम्माणं पुव्विं दुचित्राणं दुप्पडिकंताणं वेयइत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता । अट्ठारसमं पयं भवइ । भवइ य इत्थ सिलोगो ।।
इह-प्रवचने । खलुशब्दः-एवार्थे, स चाग्रे सम्यक्शब्दाद् योज्यः । भो-इत्यामन्त्रणे । प्रव्रजितेन - साधुना । उत्पन्नदुःखेन - सञ्जातशीतादिशारीरकामभोगाद्यनाप्तिरूपमानसदुःखेन। संयमे-वर्णितस्वरूपे । अरतिसमापन्नचित्तेन- उद्विग्नमनसा संयमनिर्विन्नभावेनेत्यर्थः । अवधावनोत्प्रेक्षिणा- अवधावनं संयमादपसरणं, तदुत्प्रेक्षितुं शीलमस्य स तथा तेन, उत्प्रव्रजितुकामेन । अनवधावितेनैव अनुत्प्रव्रजितेनैव । अमूनि वक्ष्यमाणानि ।
Jain Education International
५०३
For Personal & Private Use Only
www.jainelibrary.org